________________
पञ्चत्रिंशोऽध्यायः।
धनुषि सुरेड्यः शशभृदुपेतो मृगमुखसंस्थः क्षितितनयश्च । उदयति तुङ्गे सुररिपुवन्धः शशितनयो वा यदि नृपतिः स्यात्१९ चापाघे भगवान्सहस्रकिरणस्तत्रैव ताराधिपो
लग्ने भानुसुतोऽतिवीर्यसहितः स्खोचे च भूनन्दनः । यद्येवं भवति क्षितेरधिपतिः सश्चिन्त्य शौर्यं भयात्
दूरादेव नमन्ति यस्य रिपवो दग्धाः प्रतापाग्निना ॥२०॥ षष्ठं धूनमथाष्टमं शिशिरगोः प्राप्ताः समस्ताः शुभाः
क्रूराणां यदि गोचरे न पतिता भान्वालयाद्दूरतः । भूपालः प्रभवेत्स यस्य जलधेर्वेलावनान्तोद्भवैः ।।
सेनामतकरीन्द्रदानसलिलं भृङ्गैर्मुहुः पीयते ॥ २१ ॥ न प्राप्नोति जरामाशु नो भजत्यरितो भयम् । जातः स्यादधियोगेऽस्मिन्धृतिसौभाग्यसौख्यभाक् ॥२२॥ बुधः स्वोच्चे लग्ने तिमियुगलगावीड्यशशिनौ
मृगे मन्दः सारो जितुमगृहगो दानवसुहृत् । य एवं कुर्यात्स क्षितिभृदहितध्वंसनिरतो __निरालोकं लोकं चलितगजसङ्घातरजसा ॥ २३ ॥ केसरिगो महेन्द्रसचिवो दिनकरसहितः ___ कुम्भगतोऽर्कजः शशधरः खलु भवति वृषे । वृश्चिकभे क्षितेस्तु तनयो मिथुन इन्दुसुतो
मेषलग्नसमुदयो यदि स तु मनुजपतिः ॥ २४ ॥ कार्मुके त्रिदशनायकमन्त्री भानुजो वणिजि चन्द्रसमेतः । मेषगस्तु तपनो यदि लग्ने भूपतिर्भवति सोतुलकीर्तिः ॥ २५ ॥ वाकेन्द्रेषु यातैर्गुरुबुधभृगुजैर्मन्दभान्वारयुक्तैः
खोचे चन्द्रोऽधितिष्ठञ्जनयति नृपतिं कीर्तिशुक्लीकृताशम् । अत्युच्चे लग्नसंस्थो रविरपि भगवान्पार्थिवं क्रूरचेष्टं
यातायातैः समस्तं चतुरुदधिजलं यस्य सेनाः पिबन्ति॥२६॥
१ स्वरूं. २ समन्ताच.
Aho ! Shrutgyanam