SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १४२ सारावली। सर्वग्रहकृते योगे चक्रवर्तीश्वरो भवेत् ।। एकैकेन तथा जाता मण्डलानामधीश्वराः ॥ ६३॥ एकोऽपि विहगः कुर्यात्पञ्चमांशगतो नृपम् । समस्तबलसम्पन्नश्चक्रवर्तिनमेव च ॥ ६४ ।। यदि पश्यति चन्द्रमसं विबुधगुरुर्वृषभसंस्थितः प्रसवे । अवति पृथिवीमुदग्रां स्फुरन्मणिद्योतितदिगन्ताम् ॥ ६५॥ कुर्यात्तुङ्गे त्रिकोणे वा स्वराशिस्थो विलोकयन् । ग्रहस्तुषारकिरणं निषादमपि पार्थिवम् ॥६६॥ स्वगृहे तृतीयभागे शशी स्थितः पार्थिवं यदा कुरुते । परिपूर्णबलः शुभदो यदि प्रसूतौ महाराजम् ॥ ६७॥ स्वांशे दिवाकरो यस्य स्वक्षेत्रे च क्षपाकरः । स राजा गजदानौघशीकरोक्षितभूतलः ॥ ६८ ॥ लग्ने रविपुत्रसंयुते देवेज्येऽस्तगते नवोदिते । दृष्टेऽसुरराजमत्रिणा ग्रामीणो नृपतिर्भवेदिह ॥ ६९ ॥ उदयेऽसुरमत्रिवरो गुरुमे गुरुदृष्टिपथं च गतः । कुरुते नियतं सनृपं यदि तुङ्गगतश्च बुधः ॥ ७० ॥ शुक्रभास्करेन्दवो भावमेकमाश्रिताः। जीवदृष्टमात्रकाः स्यात्तदा महीपतिः ॥ ७१ ॥ लग्नगाः सितशशाङ्कजभौमाः सप्तमे शशिनि वाक्पतियुक्ते । तिग्मरश्मितनयेन च दृष्टे जायते पृथुयशाः पृथिवीशः ॥ ७२ ॥ विबुधगुरुयदि भौमनवांशे रुधिरनिरीक्षितपूर्णबलश्च । जनयति कुत्सितजन्ममहीपं क्रियपरिसंस्थितकर्मगतोऽर्कः ॥७३॥ तृतीयगाः शुक्रशशाङ्कभास्कराः कुजोऽस्तसंस्थो नवमे बृहस्पतिः । गुणोत्तमो लग्नगृहांशकोद्गमो यदा तदा हीनकुलो महीपतिः॥७४॥ जीवो बुधो भृगुसुतोऽथ निशाकरो वा धर्मे विशुद्धतनवः स्फुटरश्मिजालाः । मित्रैर्निरीक्षितयुता यदि सूतिकाले कुर्वन्ति देवसदृशं नृपतिं महान्तम् ॥ ७५ ॥ १ संस्थितं. २ सितयुक्ते. ३ गृहेन चोदिते. ४ भाग. Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy