________________
१३४
सारावली |
गुरुचन्द्रदानवेज्या व्ययभवने वित्तपोषणं कुर्युः । भूमितनयेन दृष्टा भावाध्यायोक्तमन्यच्च ॥ ७० ॥ ॥ इति व्ययचिन्ता ॥
लग्ने बुधद्रेक्काणे शशि ( नि ? ) ना दृष्टे चतुष्टयस्थाने । जातो नृपतिकुलेष्वपि शिल्पी स्यान्निश्चितं मुनिभिः ॥७१॥ नीचे सौरवांशे शुक्रेऽन्त्ये रविशशाङ्कयोर्मदने । मन्देन विलोकितयोर्माता दासी महाकुलेऽपि स्यात् ॥७२॥ सूर्याद्वितीयराशौ भास्करतनये मध्य चन्द्रे | भौमे सप्तमभवने विकलोऽस्मिन्सर्वदा जातः ॥ ७३ ॥ मध्ये पापग्रहयोश्चन्द्रे मदनस्थितेऽर्कजे जन्तोः । श्वासक्षयविद्रधिना गुल्मप्लीहातिपीडितस्सुभगः ॥ ७४ ॥ सूर्यांशे यदि चन्द्रश्चन्द्रांशे भास्करो यदि लेष्मी । सममेकराशिगतयोर्दुर्बलदेहः सदा पुरुषः ॥ ७५ ॥ निधनधनारिव्ययगा रविचन्द्रकुजार्कजा नियतम् । नयनविघातं कुर्युर्बलवग्रहदोष संभूतम् ॥ ७६ ॥ धर्मायसहजसुतगाः पापाः सौम्यैर्न वीक्षिता जन्तोः । श्रवणविनाशं कुर्युः सप्तमसंस्थाश्च दन्तानाम् ॥ ७७ ॥ उदये दिनकरपुत्रे त्रिकोणभवने कुजे च सोन्मादः । क्षीणे शशिनि ससैौरे याते वा व्ययगृहे जातः ॥ ७८ ॥ इति कल्याणवर्मविरचितायां सारावल्यां लोकयात्रा नाम चतुस्त्रिंशोऽध्यायः ॥
पञ्चत्रिंशोऽध्यायः ।
राजोपयोगिशास्त्रं यस्मात्प्रभवो विशेषतस्तेषाम् । सञ्चिन्त्या नृपयोगास्तानेवाहं वक्ष्यामि ॥ १ ॥ स्वोच्च त्रिकोणगृह गैर्वलसंयुतैश्च च्याद्यैर्नृपो भवति भूपतिवंशजातः ।
१ टक्का. २ प्लीहादि. ३ स्य भवः ४ यदा शोषी. ५ एकतर. ६ यथायोगं. ७ नयन. ८ मदने. ९ वातः
Aho! Shrutgyanam