________________
चतुत्रिंशोऽध्यायः ।
१३३ रविदृष्टे युक्ते वाऽप्यायक्षेत्रे भवेत्सदा नृपतेः । भवति धनं युद्धाद्यैश्चोरधनचतुष्पदाद्यैश्च ॥ ५८॥ स्त्रीजनहस्तिप्रायं शशाङ्कवर्गे शशीक्षिते युक्ते । क्षीणे क्षयोऽथ पूर्णे वृद्धिः स्यादायगे वृत्तेः ॥ ५९॥ हेमप्रवालभूषणमाणिक्यधनं कुजे भवेदेवम् । साहसगमनागमनैः पावकशस्त्रैश्च वक्तव्यम् ॥ ६०॥ आये बुधेऽपि वर्गे दृष्टे युक्तेऽथवा भवेन्नित्यम् । शिल्पादिलेख्यकाव्यैर्युक्तिप्रायं तथा सुतराम् ॥ ६१॥ नगरजनयोगभोगैः क्रतुभिश्च तथा विशिष्टपुण्यैश्च । हेमप्रायं वित्तं जीवेऽपि तुरङ्गमाकीर्णम् ॥ ६२ ॥ वेश्यास्त्रीसंयोगैर्गमनागमनैर्धनं भवति पुंसाम् । आये सितेऽपि चैवं मुक्तारजतादि भूयिष्ठम् ॥ ६३॥ नगरपुरवृन्दयोगैः स्थावरकर्मक्रियाभिरपि वित्तम् । लोहखरर्वृन्दबहुलं रविजेऽपि तथाऽस्य वर्गे च ॥ ६४ ॥ एवं फलनिर्देशः सौम्यैदृष्टे विशेषतो वाच्यः । क्रूरैश्च समुपघातो मिर्मिश्रस्तदा पुंसाम् ॥ ६५ ॥ संर्वग्रहयुतदृष्टे बहुप्रकारेण निर्दिशेद्वित्तम् । बलवान्यस्तत्र भवेदतिरिक्तं सम्प्रयच्छति च ॥६६॥ मित्रस्वगृहगतोध स्वोचे पूर्ण तथास्तगः किञ्चित् । शत्रुगृहस्थश्चरणं ददाति विहगस्तदाये तु ॥ ६७॥ आजन्मतो नराणां भवति धनं निश्चितं यवनवृद्धैः । क्षितिपतिमाण्डलिकानामपरिमितं प्राह लोकाक्षः ॥ ६८ ॥
॥ इत्यायचिन्ता ॥ भानौ क्षीणे चन्दौ व्ययभवने भूपतिहरति वित्तम् । भौमे बुधसंदृष्टे बहुप्रकारो भवेन्नाशः ॥ ६९॥
१ वन. २ जल. ३ थ युते. ४ यानयोगः, ५ सुते. ६ महिषबहुलं. ७ सदा च भवे, सदाये तु.
१२ सारा
Aho ! Shrutgyanam