________________
१३२
सारावली ।
एवं क्रूरैर्नाशो लग्नाच्चन्द्राद्भवेच्च बलयोगात् । शशिरविजयोः कलत्रे भार्या पुंसां पुनर्भूः स्यात् ॥ ४६ ॥ भवनाधिपांशतुल्या भवन्ति नार्यो निरीक्षणाद्वाऽपि । एकैव रविकुजांशे गुरुबुधयोश्चापि जामित्रे ॥ ४७ ॥ प्रायेण चन्द्रसिंतयोर्वर्गे युक्तेऽथवापि जामित्रे | दृष्टे वा बहुपत्यो भवन्ति शुक्रे विशेषेण ॥ ४८ ॥ गुरुशुक्रयोः स्ववणी रविकुजशशिभानुजैर्भवन्त्यूनाः । शुक्रे वेश्याप्रायश्चन्द्रेऽपि वदन्ति केतुमालाख्याः ॥ ४९ ॥ भौमे कलत्रसंस्थे नित्यं वियुतो भवेत् स्त्रिया पुरुषः । म्रियते वा शनिटे योषिदवश्यं न दृष्टेऽन्यैः ॥ ५० ॥ द्यूने कुजभार्गवयोर्जातः पुरुषो भवेद्विकलदारः । धीधर्मस्थितयोर्वा परिकल्प्यं पण्डितैरेवम् ॥ ५१ ॥ लग्नाद्व्ययरिपुगतयोः शशाङ्कभान्वोर्वदन्ति पुरुषस्य । प्रभवं समस्तमुनयः क्रमेण पत्या सहकननयस्य ॥ ५२ ॥ लग्नस्थे रवितन गण्डान्ते भार्गवे कलत्रगते । वन्ध्यापतिस्तदा स्याद्यदि न सुतक्ष शुभैर्युक्तम् ॥ ५३ ॥ लग्नव्ययमदनस्थैः पापैः क्षीणे निशाकरे धीस्थे । स्त्रीहीनो भवति नरः पुत्रैश्च विवर्जितो नूनम् ॥ ५४ ॥ यमभूमिजयोर्वर्गे द्यूनस्थे तदवलोकिते शुक्रे । जातो भवत्यवश्यं पल्या सह पुंश्चलः पुरुषः ॥ ५५ ॥ बुध भार्गवयोरस्ते स्त्रीहीनो जायते ह्यपुत्रश्च । दृष्टे शुभैश्च वाच्याः परिणतवयसः सदा प्रमदाः ॥ ५६ ॥ भार्गववाक्पतिसौम्यैः प्रमदाभवने शशाङ्कयुक्तैश्च । एकैकेन हि तेषां पुरुषस्य विभूतयो बेहुलाः ॥ ५७ ॥
॥ इति कलत्रचिन्ता ॥
१ वर्गयुतेभे, बलयुक्ते वा. २ सवर्णा. ३ नित्यवियुक्तो. ४ तदा. ५ मारयति मन्ददृष्टे. ६ लग्नव्ययषष्टगयोः. ७ शनिभार्गवयोः, शशिभास्करयोर्वदन्ति ८ व्ययदशमस्यैः ९ विपुलाः.
Aho! Shrutgyanam