SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ चतुस्त्रिंशोऽध्यायः । वर्गे रविचन्द्रमसोः सुतगेहे चन्द्रसूर्यसंयुक्ते । शुक्रेण दृष्टमात्रे पुत्रः कथितः सहोदश्च ॥ ३६ ॥ पापैर्बलिभिर्युक्ते पापर्क्षे पञ्चमे सदा राशौ । जातोऽपुत्रः पुरुषः सौम्यग्रहदर्शनातीते ॥ ३७ ॥ शुक्रवांशे तस्मिन्शुक्रेण निरीक्षिते त्वपत्यानि । दासप्रभवानि वचन्द्रादपि केचिदाचार्याः ॥ ३८ ॥ सितशशिवर्गे धीस्थे ताभ्यां दृष्टेऽथवाऽपि संयुक्ते । प्रायेण कन्यकाः स्युः समराशिगणेऽपि चान्यथा पुत्राः ३९ लग्नाद्दशमे चन्द्रे सप्तमसंस्थे भृगोः पुत्रे | पापैः पातालस्यैवंशच्छेत्ता भवेज्जातः ॥ ४० ॥ भौमः पञ्चमभवने जातं जातं विनाशयति पुत्रम् | दृष्टे गुरुणा प्रथमं सितेन नच सर्वसंदृष्टः ॥ ४१ ॥ धनजनसुखहीनः पञ्चमस्थैश्च पापै र्भवति विकल एव क्ष्मासुते तत्र जातः । दिवसकरसुते च व्याधिभिस्तप्तदेहः सुरगुरुबुधशुक्रैः सौख्यसंपद्धनाढ्यः ॥ ४२ ॥ ॥ इति पुत्रचिन्ता ॥ रिपुभावे क्षितिसूनुर्मन्देन निरीक्षितो दिशति शत्रून् । शुभयुक्तः शुभदृष्टः शत्रुभयं चैव नात्यन्तम् ॥ ४३ ॥ क्षेत्र ग्रहेन्द्रतुल्यां संख्यां तेषां विनिर्दिशेत्प्राज्ञः । भावाध्यायेऽभिहितं विस्तरतश्चिन्तयेच्छेषम् ॥ ४४ ॥ ॥ इति शत्रुचिन्ता ॥ शुक्रेन्दुजीवशशिजैः सकलैस्त्रिभिश्च द्वाभ्यां कलत्रभवने च तथैककेन । एषां गृहेऽपि च गणेऽपि विलोकिते वा सन्ति स्त्रियो भवनवर्गखगस्वभावाः ॥ ४५ ॥ १३१ १ चन्द्रसूर्ययोर्गेहे. २ दृष्टि. ३ शुक्रे दृष्टे, शुक्रसुदृष्टे बहून्यपत्यानि. ४ क्षेत्रगृहेश. ५ गणेऽथ. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy