________________
१३०
सारावली ।
सौम्यो भास्करदृष्टः सुहृदां परिसंक्षयं सदा कुरुते । भावाध्याये कथितं शेषं परिकल्पयेदत्र ॥ २४ ॥ ॥ इति सहजचिन्ता ॥
सुतभवनं शुभयुक्तं शुभदृष्टं वा शुभर्क्षमिह येषाम् । तेषां प्रसवः पुंसां भवत्यवश्यं न विपरीते ॥ २५ ॥ एकतमे गुरुवर्गे शुभराशाँवैौरसो भवेत्पुत्रः । लग्नाच्चन्द्रादथवा बलयोगाद्वीक्षितेऽपि वा सौम्यैः ॥ २६ ॥ संख्या नवांशतुल्या सौम्यांशे तावती सदा दृष्टा । शुभ तद्विगुणा क्लिष्टा पापांशकेऽथवा दृष्टे ॥ २७ ॥ सौर सौरगणो बुधो गुरुकुजार्कहग्घीनः । क्षेत्रजपुत्रं जनयति बौधोऽपि गणो रविजदृष्टः ॥ २८ ॥ मान्दं सुतर्क्षमिन्दुर्निरीक्षिते यदि शनैश्वरेण युतम् । दत्तकपुत्रोत्पत्तिः क्रीतश्च बुधस्य चैवं स्यात् ॥ २९ ॥ सप्तमभागे कौने सौरयुते पञ्चमे सदा भवने । कृत्रिमपुत्रं विन्द्याच्छेषग्रह दर्शनान्मुक्ते ॥ ३० ॥ वर्गे पञ्चमराशौ सौरे सूर्येण वाऽत्र संयुक्ते । लोहितदृष्टे वाच्यो जातस्य सुतोधमप्रभवः ॥ ३१ ॥ चन्द्रे भौमांशगते धीस्थे मन्दावलोकिते भवति । गूढोत्पन्नः पुत्रः शेषेग्रहदर्शनाभावे ॥ ३२ ॥ तस्मिन्नेव च भौमे शनिवर्गस्थे निरीक्षिते रविणा । पुरुषस्य भवति पुत्रोऽपविद्ध इति करुणमुनिवचनात् ॥३३॥ शनिवर्गस्थे चन्द्रे शनियुक्ते पञ्चमे सदा भवने । शुकरविभ्यां दृष्टे पुत्रः पौनर्भवो भवति ॥ ३४ ॥ चूडायदार्कसत्वात्कलादृतस्यैव पञ्चमे गेहे ।
रविष्टेऽप्यथ सहिते कानीनः संभवति पुत्रः ॥ ३५ ॥
१ अङ्गारक. २ सुतभवनमथ शुभयुतं ३ शुभराशौ सौरसो भवेत्पुरुषः, चौरसो भवेत्पुत्रः ४ सौम्यर्क्षे. ५ नगुरुभौम ६ शुभर्क्ष. ७ वा स्याज्जातस्य, ८ हि बीजजः पुत्रः, यतोऽधमः पुत्रः सुतोधमापुत्रः, सुतोधनप्रसवः, सुतोधमप्रसवः ९ दर्शनायाते.
Aho! Shrutgyanam