________________
चतुस्त्रिंशोऽध्यायः।
१२९ लग्नात्षष्ठमदाष्टमे यदि शुभाः पापैर्न युक्तेक्षिताः
मत्री दण्डपतिः क्षितेरधिपतिः स्त्रीणां बहूनां पतिः । दीर्घायुर्गदवर्जितो गतभयो लग्नाधियोगे भवेत् ___ सच्छीलो यवनाधिराजकथितो जातः पुमान्सौख्यभाक् १३ खगृहोचसौम्यवर्गे ग्रहः फलं पुष्टमेव विदधाति । नीचक्षरिपुगृहस्थो विगतफलः कीर्तितो मुनिभिः ॥ १४ ॥
॥इति लग्नचिन्ता॥ रविरविजभूमितनयाः कुटुम्बसंस्था विलोकनाद्वाऽपि । कुर्वन्ति धनविनाशं क्षीणेन्दुनिरीक्षिता विशेषेण ॥ १५॥ रविभौमौ धनसंस्थौ त्वग्दोषदरिद्रताकरौ कथितौ । मन्दः कुरुते शुद्धो महार्थयुक्तं बुधेक्षितस्तत्र ॥ १६ ॥ रविरपि विधनं जनयति यमेक्षितः शस्यतेऽन्यदृष्टश्च । सौम्याः कुटुम्बराशौ बहुप्रकारं धनं दद्युः ॥ १७ ॥ बुधदृष्टस्त्रिदशगुरुः कुटुंबराशौ च निखतां कुरुते । सोमतनयोऽपि शशिना निरीक्षितो हन्ति सर्वधनम् ॥१८॥ चन्द्रोऽपि धनस्थाने क्षीणोऽपि बुधेक्षितः सदा कुरुते । पूर्वार्जितार्थनाशं निरोधमपि चान्यवित्तस्य ॥ १९ ॥ शुक्रः कुटुम्बभवने चन्द्रेण निरीक्षितः प्रधनदाता। सौम्यग्रहेण दृष्टा स एव धनदः सदा ज्ञेयः ॥ २० ॥
॥ इति धनचिन्ता ॥ पापभवनं तृतीयं समस्तपापैर्युतं सहजहन्तुं । विपरीतमितः श्रेष्ठं संख्यां तेषां प्रवक्ष्यामि ॥ २१॥ यावन्तो नवभागा यदागताः सहजराशौ तु । तत्संख्यां कुर्वन्ति च दृष्टास्त्वन्यैस्तथा बहवः ॥ २२ ॥ तत्र स्थितो रविसुतः कुजेन दृष्टो विनाशयति जातान् । शुक्रो गुरुसंदृष्टः पुष्णाति सदैव दायादान् ॥ २३॥
१ विविधं. २ सहजहन्ता.
Aho ! Shrutgyanam