________________
१२८
सारावली।
चतुस्त्रिंशोऽध्यायः। रविदृष्टे प्राग्लग्ने विक्रान्तास्त्रीषु रोषणः क्रूरः । पितृपक्षलब्धविभवो नरेन्द्रसेवी भवेजातः ॥१॥ स्त्रीणां वश्यः सुभगो दाक्षिण्यमहोदधिः प्रचुरकोशः । चन्द्रेक्षिते विलग्ने मार्दवजलपण्यवान्भवति ॥२॥ साहससङ्ग्रामरुचिश्चण्डस्फुटबान्धवोऽतिधर्मरतः । उदये कुजसन्दृष्टे भवति नरः स्थूलशेफश्च ॥ ३ ॥ बुधदृष्टे प्राग्लग्ने शिल्पकलाविद्यया समभिपूर्णः । भवति नरो विपुलमतिः कीर्तिकरो मानसंयुक्तः ॥४॥ इज्याव्रतनियमपरा नृपपूज्याः ख्यातकीर्तयो मनुजाः । लग्ने सुरगुरुदृष्टे सजनगुर्वतिथिसंयुक्ताः ॥५॥ वेश्यास्त्रीजनबहुलास्तरुणाः सम्पन्नभोगधनसौख्याः । शुक्रेक्षिते विलग्ने भवन्ति मनुजाः सुरूपाश्च ॥ ६ ॥ भाराध्वरोगतप्ताः क्रुद्धा वृद्धस्त्रिया युता विसुखाः । मन्देक्षिते विलग्ने मलिना मूर्खाश्च जायन्ते ॥७॥ पश्यन्ग्रहः स्खलग्नं सर्वं विदधाति सौख्यमर्थं च । प्रायो नृपप्रियत्वं पापः पापं शुभं च शुभः॥८॥ एकेनापि न दृष्टं समस्तगुणवर्जितं लग्नम् । खगृहस्वभावसहितं जनयति खलु केवलं नित्यम् ॥ ९॥ द्व्यादिग्रहसन्दृष्टं प्रायेण सुखार्थदं भवति लग्नम् । एकेनापि शुभेन च न तु पापैरिष्यते सद्भिः ॥ १० ॥ सर्वैर्गगनभ्रमणैर्दृष्टे लग्ने भवेन्महीपालः । बलिभिः समस्तसौख्यो विगतभयो दीर्घजीवी च ॥ ११ ॥ लग्ने त्रयो विगतशोकविवर्द्धितानां
कुर्वन्ति जन्मशुभदाः पृथिवीपतीनाम् । पापास्तु रोगभयशोकपरिप्लुतानां
बह्वाशिनां सकललोकतिरस्कृतानाम् ॥ १२ ॥
१ प्रदूषणख्यातः. २ निपुणमतिः. ३ सुभगाः. ४ सुखावहं.
Aho ! Shrutgyanam