SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ त्रयस्त्रिंशोऽध्यायः। संन्नाहका मणीनां पाषाणस्वर्णरूप्यकूटाश्च । कर्षणनिरता लेये गोजीवा धान्यवाणिजकाः ॥ ७० ॥ शाकटिका मणिकारा हैरण्या गन्धविक्रये निपुणाः । गान्धर्वशिल्पलेख्यैः कन्यावर्गे सदा विभवाः ॥ ७१ ॥ प्रायोज्यानुपदेशाद्धिरण्यपरिवर्तनाच मित्राय । जायन्ते च मनुष्या नानाव्यवहारभागिनः सततम् ॥७२॥ वाणिज्यविपणिजीवा गोजीवा महिषजीवाश्च । नानापण्यसमृद्धाः सलिलोद्भवपण्यवृत्तयः ख्याताः ॥७३॥ धनधान्यमूलवणिजः फलमूलकृषीवलाश्चैव । जायन्ते घटवर्गे दशमस्थानस्थिते कलावृत्ताः ॥ ७४॥ स्त्रीसम्पर्कजविभवा जायन्ते कर्षणानुनिरताश्च । नित्योधुक्ताश्चोराः पृथिवीपतिसेवकाः पापाः ॥ ७५ ॥ देहचिकित्सानिरता लोहकरा जीविनोऽलिसंज्ञः । वर्ग नभस्तलगते धान्यानां चोपजीविनो नित्यम् ॥ ७६ ॥ नृपसचिवदुर्गपालनगोजीवनवाजिकाष्ठशकुनैश्च । यत्रोपस्करगणितजीवन्ति नराश्चिकित्सया धनुषः ॥ ७७ ॥ दशमे कुरङ्गवर्गे जलपण्यधनो भवेन्महाविभवः । खट्वारोमारोपणरसायनैर्वर्तते जातः ॥ ७८ ॥ शस्त्रदहनप्रभेदैश्चौर्येणं च वर्तते खननवृत्त्या । दशमे घटधरवर्गे भारवहस्कन्धबाहुबलात् ॥ ७९ ॥ शस्त्रात्सलिलाद्योनिप्रपोषणादश्वविक्रयाद्वाऽपि । वर्गे मीनप्रभवे दशमस्थे जायते वृत्तिः ॥ ८० ॥ दिवसकराद्यैः खस्थैः शशिहोराभ्यां भवन्त्याढ्याः । पितृमातृशत्रुहितजनसहजस्त्रीभृत्यवर्गेभ्यः ॥ ८१ ॥ होरागतैर्धनगतैरायगृहस्थैश्च चिन्तयेदर्थम् । बलसंयुतैर्ग्रहेन्द्रैरनेकधा दृष्टमाचार्यैः ॥ ८२ ॥ इति कल्याणवर्मविरचितायां सारावल्यां कर्मचिन्ताध्यायस्त्रयस्त्रिंशः ॥ १ संव्यूहकाः. २ कुल्यानाम्. स्वर्णकूटकल्पानां. ३ दुप. ४ मित्राच. ५ विपण. ६ भिषज. ७ कृषिबलाञ्चैव. ८ रताः. ९ वामा. १० शौर्येण. ११ पृष्टम्. Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy