________________
१२६
सारावली। भौमसितबुधसुरेड्या जन्मनि दशमक्षगा नरं निपुणम् । उत्पादयन्ति चतुरं शूरं समरेष्वधृष्यं च ॥ ५७ ॥ भौमबुधमन्दगुरवो जन्मनि दशमस्थिता नरं मलिनम् । जनयन्ति नरोद्युक्तं संग्रामे रिपुविनाशकरम् ॥ ५८॥ भौमबुधशुक्रसौरा नभःस्थले संश्रिताः प्रसवकाले । विद्याबहुलं शूरं जनयन्ति नरं विशालाङ्गम् ॥ ५९ ।। भौमगुरुशुक्रमन्दाश्चन्द्रान्मपूरणलंगाः प्रसवे । जनयन्ति नरं धीरं कुटुम्बयुक्तं धेनोपेतम् ॥ ६० ॥ बुधगुरुभार्गवशनयो जन्मनि दशमस्थिताः कुर्युः। पुरुषं शान्तमनस्कं सुमेधसं लोकदयितं च ॥ ६१ ॥ पापैनभःस्थलस्थैः सौम्यग्रहवीक्षितैः प्रजायन्ते । वैद्यपुरोहितगणकाश्चण्डाः परवञ्चनानुरताः ॥ ६२ ॥ एते समस्तयोगाः सौम्यग्रहवीक्षिताः प्रशस्यन्ते । पापग्रहदृष्टियुताः प्रायेण न भद्रकाः प्रोक्ताः ॥ ६३ ॥ पापास्तृतीयषष्ठा होरेन्दुस्थानतो नृणामिष्टाः। नेष्टा निधनान्त्यगता लग्नोपगता विशेषेण ॥ ६४ ॥ होराशशिनोबलवान्यस्तस्मात्कर्मभेन वा कथयेत् । यो बलयुक्तो वर्गस्तदधिपतेर्वाऽऽदिशेद्वृत्तिम् ॥ ६५ ॥ आरामपुत्र( बुद्धि)सेवाकृषिरसवणिगर्कदूतकार्येण । जीवन्ति नरा नित्यं मेषगणे दशमराशिस्थे ॥६६॥ वृषभगणे दशमस्थे शकटचतुष्पदविहङ्गमृगजीवी । धान्यादिसङ्ग्रहेण च जाङ्गलदेशे फलं प्रायः ॥ ६७ ॥ जलवणिजः सुसमृद्ध्या मुक्ताशङ्खप्रवालभाण्डैश्च । लिपिगणितलेख्यजीवी नृमिथुनवर्गे दशमसंस्थे ॥ ६८॥ शस्त्राग्नियोनिपोषणमुक्तसिंख्योपजीवनं चैव । आखेटकवृत्त्या वा कर्किणि वर्ग च दशमस्थे ॥ ६९॥
१ सदोद्युक्तं. २ जनोपेतम्. ३ चन्द्रातू. ४ भाव. ५ जादि. ६ शल्यो. ७ आहिण्ड.
Aho ! Shrutgyanam