________________
त्रयस्त्रिंशोऽध्यायः।
१२५ विद्याधनजनहीनान्कापुरुषान्सौख्यवर्जितान्विकलान् । जीवाङ्गारकसौरा दशमे कुर्युनरान्नीचान् ॥ ४३॥ सचिवानुत्तमपुरुषान्वनधर्मरतांश्च धनिनश्च । भौमभृगुसूर्यपुत्राः कुर्वन्ति नराननेककर्मरतान् ॥ ४४ ॥ शुक्रबृहस्पतिसौम्या दशमे पुरुषस्य शुक्रराशिस्थाः । बहुविधमिष्टं कुर्युर्व्याधि चाप्यन्यगृहसंस्थाः ॥ ४५ ॥ लिपिलेख्यकाव्यनिरतं धनवन्तं बहुविधेयभृत्यं च । अटनप्रियं सुरूपं बुधगुरुसौरा नरं दशमे ॥४६॥ दशमे विज्ञानयुतान्मल्लान्परदेशनिरतांश्च । कुर्युर्बुधभृगुरविजाः कर्मोद्युक्तं सदा दान्तम् ॥ ४७॥ विद्वांसं धर्मरतं दयान्वितं सत्यवन्तं च । भानुजगुरुभृगुपुत्रा दशमस्थानोपगा नरं कुर्युः॥४८॥ एवं व्यादिषु वाच्यं जन्मनि पुंसां फलं हि कर्मोत्थम् । त्र्यादिग्रहसंयोगेऽत्र विशेषस्तमपि वक्ष्ये ॥४९॥ रविभौमबुधसुरेड्या दशमस्थानोपगा नरं कुर्युः । शूरं विक्षतगात्रं दातारं सर्वकर्मरतम् ॥ ५० ॥ वक्रार्कशुक्रसौम्याश्चन्द्राद्दशमं समाश्रिताः प्रसवे । कुर्युनिर्माल्यकराँल्लेख्यकरांश्चापि चित्रकर्मकरान् ॥ ५१ ॥ रविकुजबुधभानुसुता दशमस्थानस्थिताः प्रसवकाले । उत्पादयन्ति पुरुषं धनवाहनवारणोपेतम् ॥ ५२ ॥ रविजीवशुक्रसौम्या जनयन्ति नभःस्थिता नरान्सौम्यान् । कुत्सितवृत्तीनामपि सुतान्वरान्कर्षणोपेतान् ॥ ५३॥ रविजीवसौम्यसौरा दशमस्थानस्थिताः कुर्युः । पुरुषं मायानिपुणं क्रूरं परवञ्चनानुरतम् ॥ ५४॥ रविसितबुधभानुसुताश्चन्द्राद्दशमस्थिता नरं कठिनम् । उत्पादयन्ति सुभगं वाग्मिनमथ कर्षणानुरतम् ॥ ५५ ॥ रविगुरुभार्गवशनयो मेषूरणसंस्थिताः प्रसवकाले ।
उत्पादयन्ति मनुजं प्रवासशीलं विविधचेष्टम् ॥ ५६ ॥ } परधर्म. २ कुर्युर्मालाकारं लेख्यकरं चापि वास्तुकर्मरतम्.
Aho ! Shrutgyanam