________________
१२४
सारावली।
रविभौमचन्द्रपुत्राश्चन्द्रादशमस्थिता नरं धन्यम् । जनयन्त्युत्तमपुरुषं नृपतिसमं सर्वजनपूज्यम् ॥ २९ ॥ रविभौमदेवपूज्या दशमस्थाने नरं सुभगम् । शत्रूणां हन्तारं जनयन्ति समृद्धिसंयुक्तम् ॥ ३० ॥ चन्द्रादशमे भानुभूपुत्रो भार्गवश्च जनयन्ति । क्रूरं साहसनिरतं पुरधनकरणेऽतिनिपुणमतिम् ॥ ३१ ॥ भानुजरविभूपुत्रा दशमस्थाः क्रूरकर्मनिरतं तु । उत्पादयन्ति मनुजं मूढं पापं दुराचारम् ॥ ३२॥ रविबुधगुरवो दशमे विद्वांसं रूपसंयुक्तम् । उत्पादयन्ति पुरुषं धर्मिष्ठं बन्धुवल्लभं चैव ॥ ३३॥ बुधसूर्यभार्गवसुता यशस्विनं धार्मिकं विगतरोषम् । जनयन्त्यपराभूतं सौभाग्यपरिच्छदसमृद्धम् ॥ ३४ ॥ रविबुधशनयो दशमे क्रूरं चपलं नरं विशीलं च । उत्पादयन्ति नियतं शस्त्राग्निपरिक्षताङ्गं च ॥ ३५ ॥ रविभृगुजदेवपूज्या दशमस्थानोपगा नरं कुर्युः । सुभगं विद्याप्तधनं धर्मरतं भोगभागिनं नित्यम् ॥ ३६॥ त्रिदशगुरुमन्दसूर्या दशमे युक्ता नरं प्रकुर्वन्ति । प्रायेण लोकमान्यं चारित्रविलोपिनं धीरम् ॥ ३७॥ भार्गवरविभानुसुता दशमस्थानोपगा नरं कुर्युः । लोभान्वितमतिचपलं समस्तजगविप्रयुक्तं च ॥ ३८ ॥ भौमेन्दुजसुरपूज्या धर्मिष्ठं बहुकुटुम्बपरिवारम् । जनयन्ति दशमसंस्था विद्याधनमागिनं पुरुषम् ॥ ३९ ॥ शोभनशिल्पाभिरतान्मालाकारान्सुवर्णकारांश्च । कुर्युर्बुधभृगुवका दशमस्थाः सर्वलोकदयितांश्च ॥ ४०॥ भौमबुधसूर्यपुत्रा जनयन्ति तथा नै धर्मशीलं च । निद्रानिरतं प्रखलं दशमस्थानोपगा नरं मलिनम् ॥ ४१ ॥ भार्गवसुरेज्यभौमा दशमस्थानाश्रिता नरान्कुयुः ।
धनसंयुक्तान्शूरान्देवद्विजपूजनानुरतान् ॥ ४२ ॥ १ जेतारं. २ परधनहरणे च निपुणमतिम्. ३ सुधर्म.
Aho! Shrutgyanam