________________
त्रयस्त्रिंशोऽध्यायः ।
१२३
सूर्यः सौम्यसमेतो वस्त्रालङ्कारभागिनं वणिजम् । जनयति मेषूरणगः पुरुषं जलजीविनं वाऽपि ॥ १५ ॥ जीवसहायः सूर्यः सिद्धारम्भान्नरेन्द्रमान्यांश्च । जनयति दशमे पुरुषान् वीरान्शूरान्सुविख्यातान् ॥१६॥ सूर्यसहायः शुक्रो दशमे खजनाश्रितं नरं कुरुते । स्त्रीसंश्रयात्समृद्धं सुभगं नृपवल्लभं चापि ॥ १७॥ सूर्यः स्वपुत्रसहितो दशमे वधवन्धभागिनं भृतकम् । जनयति दीनं कृपणं चोरैर्मुषितं प्रलापकरम् ॥१८॥ भौमः सोमजसहितो जनयति दशमे नरं बहुविपक्षम् । अस्त्रकलावेत्तारं कौशलमतिजीविनं महाशूरम् ।। १९ ॥ भौमः सुरगुरुसहितो दशमे कुरुते बलस्य नेतारम् । मित्रेभ्यो लब्धधनं तदाश्रयाजीवितं धन्यम् ॥ २० ॥ जनयति विदेशनिरतं काञ्चनमुक्तादिभिर्वणिग्वृत्त्या । भौमः शुक्रसमेतो दशमे स्त्रीसंश्रयाद्वाऽपि ॥ २१ ॥ भौमः सौरसहायो जनयति दशमे स्थितो नरं प्रसवे । साहसशीलं क्षुद्रं कर्मायुक्तं रूँजा सहितम् ॥ २२ ॥ सेधनं नरेन्द्रपूज्यं धर्मिष्ठं वृन्दनायकं ख्यातम् । जीवः सौम्यसहायो जनयति मेषूरणे पुरुषम् ॥ २३॥ सौम्यः शुक्रसहायो जनयति दशमे सुहृजनोपेतम् । विद्यास्त्रीधनसौख्यं नृपसचिवं विषयनाथं वा ॥ २४ ॥ सौम्यः सौरसहायो मृद्भाण्डकरं करोति दशमस्थः । ख्यातं विद्याचार्य पुस्तकलिपिलेख्यकारं च ॥ २५ ॥ वचसां पतिः सितयुतः कर्मणि कुरुते नरेन्द्रवरभृत्यम् । ब्राह्मणपतिं विशोकं विद्याचार्य समर्थं च ॥ २६ ॥ सुरराजगुरुः सार्किर्दशमे नीचं परोकाररतम् । कुरुते प्रवृद्धचेष्टं स्थिरास्पदं सुस्थिरारम्भम् ॥ २७ ॥ शुक्रः सौरसहायश्चित्रकरं गन्धजीविनं वैद्यम् ।
जनयति दशमे पुरुषं नीलकरं चूर्णकारं च ॥ २८॥ १ धीरान्. २ नृशंसं. ३ कर्मोद्युक्तं. ४ प्रजाहीनम्. ५ षण्डं. ६ तापकर.
Aho ! Shrutgyanam