________________
१२२
सारावली। होरेन्द्रोबलयोगाद्यो दशमस्तत्स्वभावजं कर्म । तस्याधिपपरिवृद्ध्या वृद्धि याऽन्यथा हानिः ॥ २॥ जाङ्गलमथवानूपं तथोभयं वा गृहं परीक्षेत । ग्राम्यमथारण्यं वा सौम्या पापभवनं वा ॥३॥ द्विपदचतुष्पदरूपं सरीसृपं वा तथोभयं चैव । यद्रूपं तद्भवनं यादृशकं यत्स्वभावं च ॥४॥ प्रवदेत्तत्समदेशे कर्मप्राप्तिं नरस्य तत्सदृशीम् । तस्माद्दशमं भवनं प्रसवे बुध्येत यत्नेन ॥ ५॥ दशमे नक्षत्रपतेर्लग्नात्पुरुषस्य कर्म संभवति । सर्वारम्भे वृत्तिं विनिर्दिशेत्तस्य जातस्य ॥ ६ ॥ घ्यन्तरयोगाध्याये कथितं कर्मस्थितैग्रहर्लग्नात् । चन्द्रादत्र विशेषो ग्रहैः स्थितैयक्तमिह वक्ष्ये ॥ ७ ॥ चन्द्रादशमे सूर्यः सिद्धारम्भ धनैः समृद्धं च । जनयत्युत्तमसत्वं नृपतिमुदग्रं धनाश्रयं पुष्टम् ॥८॥ भौमः साहसनिरतं प्रत्यन्तनिवासिनं विषयलुब्धम् । क्रूरं निषादचरितं जनयति दशमे स्थितः पुरुषम् ॥ ९॥ विद्वांसं धनवन्तं बहुश्रुतं नृपतिनायकं ख्यातम् । जनयति सौम्यो दशमे पुरुषं बहुशिल्पिनं प्राज्ञम् ॥१०॥ गुरुरपि दशमस्थाने सिद्धार्थं धार्मिकं धनसमृद्धम् । जनयत्युत्तमचरितं नरेन्द्रसचिवं नरं ख्यातम् ॥ ११ ॥ शशिनो दशमे शुक्रः सुभगं ललितं च वित्तवन्तं च । जनयति सिद्धारम्भं धनिनं नृपपूजितं पुरुषम् ॥ १२॥ सौरो व्याधितदेहं निःखं दुःखान्वितं प्रजाहीनम् । कर्मसु नित्योद्विग्नं जनयति दशमे स्थितः पुरुषम् ॥१३॥ भानुभॊमसमेतः कर्मकरान्कासशोषगदबहुलान् । ज्योतिर्विदः प्रकुर्याल्लाक्षणिकांस्तार्किकांश्चापि ॥१४॥
१ तत्स्वभावं. २ यस्य. ३ सिद्धिं. ४ जनाश्रयं. ५ सितं. ६ नृपतिसंमतं. ७ कामशोकमदबहुलान्.
Aho ! Shrutgyanam