________________
त्रयस्त्रिंशोऽध्यायः।
१२१ प्राज्ञं नृपतिं कुलजं प्रधानमतिवित्तसंयुतं कान्तम् ।
सौम्येन्दुशुक्रजीवा जनयन्ति नरं तु विख्यातम् ॥ K. N. M. S reads the same sloka thus.
गुरुसौम्यशुक्रचन्द्रा भाग्ये युक्ताः प्रजायमानस्य । यस्य स भाग्ये युक्तो लोके पुरुषोत्तमो ज्ञेयः॥ भानुजबुधगुरुचन्द्रा जनयन्ति नरं परं सुनयम् । भाग्यस्थिताः समृद्ध नीतिज्ञं चारुवेषं च ॥ १०४॥ शनिशुक्रबुधशशाङ्का जन्मनि भाग्यस्थिता नरं कुर्युः । मेधाविनं प्रचण्डं जननीतिविशारदं धन्यम् ॥ १०५॥ चन्द्रशनिशुक्रजीवा जन्मनि नवमस्थिताः प्रकुर्वन्ति । मायाविनं प्रचण्डं नरेष्वजेयं नरं धीरम् ॥ १०६ ॥ भौमज्ञसूरिशनयो नवमस्थानोपगा नरं कुर्युः । रिपुपक्षपरिक्षीणं रणप्रचण्डं सुधीरं च ॥ १०७ । भौमज्ञशुक्रशनयः कुर्वति दशानुगतं सुशीलं च । जनयन्ति नवमसंस्था धनयुक्तं भक्तियुक्तं च ॥ १०८॥ भौमभृगुजीवरविजा जनयन्ति नरं धनैः परित्यक्तम् । क्षुद्रं दयाविरहितं विहीनसत्वं स्थिता भाग्ये ॥ १०९॥ त्रिचतुःपञ्चखगेन्द्रास्तथा च षट् सप्त संस्थिता भाग्ये । प्रात्ययिकं धनवन्तं कुर्युनृपतिं च बुधसहिताः ॥ ११० ॥ जनयन्ति भाग्यसंस्था गुरुसौम्यविवर्जिता ग्रहाः पुरुषम् । व्याधिप्रायमकान्तं जनहीनं बन्धनार्तमतिदीनम् ॥१११॥ उक्तं बहुप्रकारं भाग्यगृहे बादरायणादिकृतम् ।
ग्रहयोगेक्षणभावैर्विचिन्त्य बुद्ध्या वदेदन्यत् ॥ ११२ ॥ इति कल्याणवर्मविरचितायां सारावल्यां भाग्यचिन्तानाम द्वात्रिंशोऽध्यायः ।।
त्रयस्त्रिंशोऽध्यायः। लग्नादशमे राशौ कर्मफलं यत्प्रकीर्तितं मुनिभिः ।
राशिग्रहखभांगैहदृष्टया तदहमपि वक्ष्ये ॥१॥ *Reading of sloka 103 in the P. L. M. S. १ भावै.
११ सारा.
Aho! Shrutgyanam