________________
१२०
सारावली ।
शुक्रगुरुभौमरवयो लोके द्वेष्यं पिपासार्तम् । जनयन्ति नवमसंस्थाः कन्यानां दूषकं चपलचित्तम् ॥९१॥ गुरुभौमसौरसूर्या नवमे सुखवर्जितं सदोद्युक्तम् । जनयन्ति नरं चण्डं विक्रमयुक्तं महासत्वम् ॥ ९२ ॥ * रविबुधजीवसिताः स्युर्नवमे यस्येह जायमानस्य । स भवत्युत्तम पुरुषो धनकनकैश्वर्यसम्पन्नः ॥ ९३॥ भानुजरविबुधगुरवो नवमे जनयन्ति मानवं निधनम् । पापं परदाररतं विद्विष्टं नीचकर्माणम् ॥ ९४ ॥ बुधरविजरविसिताः स्युर्भाग्यस्थाने नरं सुभगम् । जनयन्ति धनसमेतं सत्यरतं लोकविख्यातम् ॥ ९५ ॥ रविगुरुसितभानुसुता जन्मनि नवमक्षेगा नरं कुर्युः । सत्यत्रतं सुवाक्यं गुरुद्विजातिथिषु भक्तम् ॥ ९६ ॥ चन्द्रज्ञकुजसुरेज्या जनयन्ति नरं परिच्छदसमृद्धम् । बाल्ये मातृवियुक्तं धनान्वितं संस्थिता भाग्ये ॥ ९७ ॥ भौमसितशशिजचन्द्रा भाग्ये जनयन्ति तापसं ख्यातम् । वाग्मिनमतिदातारं परलोकपरं महाप्राज्ञम् ॥ ९८ ॥ रविजबुधचन्द्रभौमा जनयन्ति नरं पराङ्मुखं दीनम् । क्षुद्रं मायाचतुरं परदाररतं स्थिता भाग्ये ॥ ९९ ॥ भौमेन्दुशुक्रजीवा नृपवंशकरं प्रधानमतिशूरम् | विद्याधनसुसमृद्धं विख्यातं लोकसंमतं चैव ॥ १०० ॥ शशिवकाकिंसुरेज्या जनयन्ति नरं पिपासार्तम् । कलहप्रियं च नवमे सौभाग्यपरिच्छदातीतम् ॥ १०१ ॥ चन्द्रारभानुजसिता नवमे जनयन्ति निष्ठुरं पापम् । मायाविनं च पुरुषं शौचाचारैर्विहीनं च ॥ १०२॥ सितगुरुशशिजशशाङ्का जन्मनि भाग्यर्क्षमाश्रिता धनिनम् । जनयन्ति धर्मसक्तं नरं कलासु प्रसिद्धं च ॥ १०३ ॥
*Sloka 92 is found in P. L. and K. N. MSS. f Sloka 100 is found in the P. L. M. S..
Aho! Shrutgyanam