________________
द्वात्रिंशोऽध्यायः ।
सौरसहायः शुक्रो व्याधितदेहं नरं कुरुते । बहुपुत्रं नृपतीष्टं यशखिनं शीलसम्पन्नम् ॥ ५० ॥ एवं स्थानविशेषैर्दृष्टिविशेषैश्च निपुणमधिगम्य । ब्रूयात्फलनिर्देशं शास्त्रादनुरूपतः प्राज्ञः ॥ ५१ ॥ सत्रणगात्रं रूक्षं मृतपितरं मातृवर्जितं कुर्युः । बाल्ये क्षुद्रं द्वेष्यं हिंस्रं शशिरुधिरभानवो भाग्ये ॥ ५२ ॥ रविचन्द्रबुधा भाग्ये क्लीबाकारं सुदुःखितं कुर्युः । सर्वजनानां द्वेष्यं विक्रान्तं सत्यवचनं च ॥ ५३ ॥ चन्द्रदिवाकरगुरवो नवमे पुरुषस्य सम्भवे यस्य । स भवत्युत्तमपुरुषो वाहनधनसौख्यसम्पन्नः ॥ ५४ ॥ रविचन्द्रसिता नवमे स्त्रीकल हैर्नष्ट सर्वधनसौख्यम् । नृपसंमतं नयज्ञं जनयन्ति नरं प्रियालापम् ॥ ५५ ॥ सूर्यनिशाकरसौरा नवमे राशौ नरं सदा कुर्युः । प्रबलं चण्डाचारं परभृत्यं लोकविद्विष्टम् ॥ ५६ ॥ रविभौमबुधा नवमे कुर्वन्ति नरं प्रियालापम् । भुजगमिवातिक्रुद्धं समरपरं निष्ठुरं प्रवासतरम् ॥ ५७ ॥ रविगुरुवका नवमे जनयन्ति नरं सदोद्युक्तम् । देवपितृपूजनरतं समृद्धदारं गुणोपेतम् ॥ ५८ ॥ कलहप्रियं कुलीनं कन्यानां दूषकं च चपलं च । दिवसकरवकशुका नवमे द्वेष्यं नरं कुर्युः ॥ ५९ ॥ साहसिकमतिक्षुद्रं लोकद्वेष्यं प्रियानृतं क्रूरम् । पित्रा रहितं बाल्ये कुर्युर्वक्रार्किभानवो नवमे ॥ ६० ॥ रविबुधगुरवो नवमे भाग्यसमेतं धनान्वितं सुभगम् । नृपतिप्रियं सुवेषं जनयन्ति नरं सुधीरं च ॥ ६१ ॥ रविबुधशुका भाग्ये जनयन्ति नरं प्रकाशिनं कान्तम् । रिपुपक्षपरिक्षीणं नृपतिसमं सारवन्तं च ॥ ६२ ॥ परदाररतं पापं प्रवासशीलं च निपुणमतिधृष्टम् । आनृतिकमदैवपरं रविबुधसौरा नरं भाग्ये ॥ ६३ ॥ १ बहुवित्तं. २ सुभगमथा. ३ प्रवासार्तम्.
Aho! Shrutgyanam
११७