________________
११८
सारावली ।
भाग्यगृहे रविशुक्रौ जीवश्च नरं सुपण्डितं कान्तम् । बहुविषयपतिं वीरं जनयन्ति सुमेधसं प्राज्ञम् ॥ ६४ ॥ त्रिदशगुरुसौरसूर्या नवमे यस्येह जायमानस्य । स भवेदुत्तमवीर्यो राजा धनवान्गुणैः समृद्धश्च ॥ ६५ ।। कान्तिविहीनं मलिनं भूपतिपरिदण्डितं विभवहीनम् । जनयन्ति नरं भाग्ये रविशुक्रशनैश्चरा मूर्खम् ॥ ६६ ॥ धनकनकरत्नभाजं जनयन्ति शशिज्ञभूमिजाः पुरुषम् । प्रथमे वयसि च तप्तं भाग्यगृहे सर्वनाशेन ॥ ६७॥ भौमनिशाकरजीवाः कुर्वन्ति नरं जितेन्द्रियं प्राज्ञम् । गुरुदेवभक्तिनिरतं विद्याधनमागिनं सुभगम् ॥ ६८॥ व्रणिताङ्गमरूपं वा प्रेभेदिनं स्त्रीप्रियं युवतिवश्यम् । युवतिविनाशितसारं भृगुशशिवक्रा नरं नवमे ॥ ६९ ॥ व्यापन्नमातृवंशं क्षुद्रं बाल्ये निराकृतं मात्रा। सौरो भौमश्चन्द्रो जनयन्ति नराधमं नवमे ॥ ७० ॥ गुरुबुधचन्द्रा नवमे कुलवंशविवर्धनं कुर्युः। आचार्य बहुमित्रं नृपतिं बहुसाधनोपेतम् ॥ ७१ ॥ मातृसपत्नीजनकं प्रमुदितमानान्वितं प्रचुरमित्रम् । कुर्वन्ति सामशीलं भृगुबुधचन्द्रा नरं भाग्ये ॥ ७२ ॥ शशिबुधसौरा नवमे कूराचारं सुविक्रमं मलिनम् । जनयन्ति कुत्सितधियं संग्रामपराङ्मुखं दीनम् ॥ ७३॥ चन्द्रबृहस्पतिशुक्रा नवमे यस्येह जायमानस्य । स भवति महीपतुल्यो नृपतिकुले भूपतिश्चैव ।। ७४ ॥ शशिगुरुसौरा नवमे कुर्वन्ति नरं प्रियालापम् । सत्यव्रतं सुशीलं विख्यातं सर्वशास्त्रकुशलं च ॥ ७५ ॥ शुक्रेन्दुयमा नवमे कृषिवृत्तिं योनिपोषणानुरतम् । कुर्युर्मनुजमपापं कृतकृत्यं लोकविख्यातम् ॥ ७६॥ तेजस्विनं विशोकं विद्वांसं वाक्स्थिरं विशिष्टं वा ।
कुजबुधजीवा नवमे कुर्वन्ति च मण्डलाधिपतिम् ॥ ७७॥ १ भावेन. २ प्रभक्षणं. ३ मनुजं पापम्.
Aho! Shrutgyanam