________________
- सारावली। चन्द्रो रुधिरसहायो भाग्यं समुपेत्य मातरं हन्यात् । कुर्याच विकलगात्रं सव्रणदेहं समृद्धं च ॥ ३६॥ चन्द्रः स्वसुतसमेतः शास्त्रज्ञं पण्डितं विकलदेहम् । जनयत्युत्तमपुरुष बहुवाचं विश्रुतं चैव ॥ ३७॥ सुरगुरुसहिते चन्द्रे भाग्ये प्रवरः प्रसूयते पुरुषः । सौभाग्यधनसमृद्धः सर्वत्र सुखान्वितो धीरः ॥ ३८॥ चन्द्रो भार्गवसहितो भाग्यगृहे व्याधितं नरं कुरुते । कुलटापति समृद्धं मातृसपत्नीप्रदं सचिववश्यम् ॥ ३९ ॥ रविसुतसहितश्चन्द्रो नवमे राशौ विकृष्टधर्माणम् । जनयति मनुजं पापं माता च कुलच्युता भवति ॥ ४० ॥ रुधिरः सोमजसहितो भाग्यः जनयति प्रधानं च । नित्योद्विग्नं सुभगं भोगयुतं शास्त्रकुशलं च ॥४१॥ भौमः सुरगुरुयुक्तो भाग्ये धनधान्यभागिनं पुरुषम् । पूज्यव्याधितदेहं क्लिष्टं व्रणदीक्षितं प्रसवे ॥ ४२ ॥ भार्गवसहितः क्षितिजः परदेशरतं विवादिनं क्रूरम् । स्त्रीद्वेषिणं कृतघ्नं जनयति मिथ्याप्रधानं च ॥४३॥ पापं मलिनाचारं परदाररतं विनष्टधनसौख्यम् । कुजरविजौ भाग्यगृहे स्वजनविहीनं नरं कुरुते ॥४४॥ सौम्यः सुरगुरुसहितः शास्त्रज्ञं पण्डितं धनसमृद्धम् । प्रियवादिनं कलाशं प्रभविष्णुमहत्तरं भाग्ये ॥४५॥ भृगुसुतसहितः सौम्यः ख्यातं च सुपण्डितं धीरम् । सुभगं वचनसमर्थं जनयति नीतिप्रियं भाग्ये ॥ ४६॥ सूर्यजसहितः सौम्यो व्याधितमाढ्यं प्रियान्वितं निपुणम् । जनयति भाग्ये पुरुषं सद्वेष्यं बहुकथं चैव ॥४७॥ शुक्रः सुरगुरुसहितो भाग्यगृहस्थो नराधिपं कुरुते । चिरजीविनं सुवाक्यं नानाविधसौख्यसम्पन्नम् ॥ ४८॥ जीवः सौरसहायो भाग्ये धनरत्नभागिनं कुरुते ।
पूज्यं व्याधितदेहं स्वजनविहीनं सदा पुरुषम् ॥ ४९ ॥ १ गीतप्रियं.
Aho ! Shrutgyanam