________________
द्वात्रिंशोऽध्यायः ।
राश्यधिपेन च दृष्टे जीवे भाग्याश्रिते नृणां ज्ञेयम् । एभिः कथितैर्दृष्टे फलमिदमन्यैरसन्दृष्टे ॥ २३ ॥ उत्तमरूपो गुणवान् तेजस्वी पार्थिवो महाविभवः । देवगुरौ भाग्यस्थे सर्वग्रहवीक्षिते भवति ॥ २४ ॥ भाग्ये शुभगगनसदो बलिनो राज्यप्रदास्तु विज्ञेयाः । स्थावरधनधान्यकरा धर्मायुर्वर्धनाश्चैव ॥ २५ ॥ नीचारिराशिसंस्थाः पापा भाग्ये न सौम्यसंदृष्टाः । दुर्बलमधनं कुर्युर्विगतख्यातिं नरं मलिनम् ॥ २६ ॥ स्वे स्वे भवने पुंसां क्रूरा भाग्यर्क्ष संस्थिता ये स्युः । ज्ञेयास्त उत्तमशुभा बहुतरगुणसंयुताः शुभैर्दृष्टाः ॥ २७ ॥ पूर्णेन्दुयुते भाग्ये वार्किबुधाः प्रधानवीर्याश्च । व्यस्ता वाऽथ समस्ताः प्रधाननृपसंभवो ज्ञेयः ॥ २८ ॥ सकलगगनगेहाः खोच्चगा भाग्यराशौ धनकनकसमृद्धं श्रेष्ठमुत्पादयन्ति । अथ शुभविहगेन्द्रैस्तत्र दृष्टे नरेन्द्रं
११५
विनिहतरिपुपक्षं दिव्यकान्ति सुकीर्तिम् ॥ २९ ॥ सूर्यश्चन्द्रसहायो भाग्ये स्वल्पायुषं नरं कुरुते । नयनव्याधितमाढ्यं सुभगं कलहप्रियं चापि ॥ ३० ॥ भानुर्वकसमेतो नानादुःखान्वितं नरं कुरुते । कलहप्रियं प्रचण्डं शूरं नृपवल्लभं निपुणम् ॥ ३१ ॥ रविसहितः शशितनयो निपुणं दुःखान्वितं बहुविपक्षम् । जनयति भाग्ये पुरुषं नानारोगैः परिगृहीतम् ॥ ३२ ॥ सुरगुरुसहितः सूर्यो भाग्ये कुर्याद्धनान्वितं पुरुषम् । पितरं च धनसमृद्धं दीर्घायुषमार्यमतिशूरम् ॥ ३३ ॥ शुक्रसहायः सूर्यो व्याधितदेहं नरं कुरुते । प्रियगन्धमाल्यभूषणवस्त्रालङ्कारसंयुतं भाग्ये ॥ ३४ ॥ सूर्यः सौरसहायो धनिनं नेत्रातुरं कलहनिष्ठम् । व्याधितपितरं कुरुते भाग्ये स्वल्पायुषं पुरुषम् ॥ ३५ ॥
१ खेटा:.
Aho! Shrutgyanam