________________
११४
सारावली ।
चन्द्रार्काभ्यां दृष्टे सुसमृद्धो वल्लभः पितृजनन्योः । ख्यातो नरेन्द्रतुल्यो बहुदारसमन्वितः पुरुषः ॥ ९ ॥ ललितः कान्तः सुभगो वरयुवतिविभूषणार्थसम्पन्नः । बुधसूर्याभ्यां दृष्टे काव्यकलापण्डितः प्राज्ञः ॥ १० ॥ उत्सवसमाजशीलो गोमहिषाजवरवारणोपेतः । रविसितदृष्टे जीवे भाग्यस्थे स्याद्विनीतश्च ॥ ११ ॥ अर्कार्किभ्यां दृष्टे देशपुरश्रेणिनायकः ख्यातः । प्राज्ञो गुणवान्सधनो निधिनाथः संग्रहणशीलः ॥ १२ ॥ सेनाचार्यः स्फीतो मत्री वा जायते गुरौ भाग्ये । दृष्टे कुजचन्द्राभ्यां नानाविधसौख्यभाजनं सुभगः ॥ १३ ॥ उत्तमगृहशयनानां भोगी तेजोन्वितः क्षमाप्रतिमः । चन्द्रबुधाभ्यां दृष्टे जातः पुरुषोऽतिमतियुक्तः ॥ १४ ॥ आढ्यः कर्मोद्युक्तः शूरः परदारवान् सुतविहीनः । इन्दुसिताभ्यां दृष्टे भाग्यगृहे स्यागुरौ जातः ॥ १५ ॥ मदबहुलः स्थिरजीवी परदेशरतो विवादशीलः स्यात् । अनृतवचनो गुणोनः शशियमदृष्टे गुरौ भाग्ये ॥ १६ ॥ सुप्राज्ञोऽतिसुशीलः सुगुणो विद्वान्गृहीतवाक्यश्च । सुरुचिरवेषो जीवे कुजबुधदृष्टे भवेद्भाग्ये ॥ १७ ॥ धनवान्विद्यायुक्तो विदेशगः सात्विकोऽतिनिपुणश्च । क्षितितनयभार्गवाभ्यां दृष्टे क्रूरो नरो जातः ॥ १८ ॥ नीचः पिशुनो द्वेष्यो विदेशगश्चलजनैः समायुक्तः । भौमार्किभ्यां दृष्टे भाग्यगृहे सुरगुरौ जातः ॥ १९ ॥ शिल्पज्ञोऽतिसुशीलो विद्वान्सुभगो गृहीतवाक्यश्च । सुरुचिरवेषो जीवे बुधसितदृष्टे भवेद्भाग्ये ॥ २० ॥ सुभगो विद्वान्वक्ता ललितः शूरः सुखी विनीतश्च । जी भाग्योपगते बुधाहि पुमान्भवति ॥ २१ ॥ देवगुरौ भाग्यस्थे काव्यार्कजवीक्षिते पुमान्भवति । राजेश्वरराष्ट्राणां पुरोगमो धनसमृद्धश्च ॥ २२ ॥
१ सुभगो.
Aho! Shrutgyanam