________________
द्वात्रिंशोऽध्यायः।
११३ मित्रेभ्यो धनलाभं बन्धुभ्यः सत्क्रियाः समाप्नोति । शनिशुक्रयोश्चतुर्थे नृपतेश्च तथाप्ततां याति ॥ ८४॥ स्त्रीरत्नानि सुखानि च धनानि कीर्तिं च भूतिमखिलां च । मन्दसितयोर्युक्त्यां प्राप्नोति पुमान्विषयलाभम् ॥ ८५ ॥ सर्वद्वन्द्वविमुक्तो लोके ख्यातो विशिष्टकर्मा च । मेधूरणे सिताक्योर्नृपतेर्मत्री भवेदधिकः ॥ ८६ ॥ एवं त्रिभिश्चतुर्भिः पञ्चभिरथ सप्तभिश्च षड्भिर्वा ।
वक्तव्यं केन्द्रस्थैर्ग्रहयोगफलं विचिन्त्य धिया ॥ ८७॥ इति कल्याणवर्मविरचितायां सारावल्यां यन्तरयोगो नाम एकत्रिंशोऽध्यायः ॥
द्वात्रिंशोऽध्यायः। सर्वमपहाय चिन्त्यं भाग्यक्षं प्राणिनां विशेषेण । भाग्यं विना न जन्तुर्यस्मात्तद्यनतो वक्ष्ये ॥१॥ लग्नान्निशाकराद्वा यन्नवमं तद्गृहं भवेद्भाग्यम् । अनयोर्यो बलयुक्तो भाग्यगृहं चिन्तयेदस्मात् ॥२॥ भाग्यक्षपतिः कस्मिन्नेको भाग्यक्षमाश्रितो विहगः ।। बलवान्मन्दबलो वा तस्याधिपतेस्तु कारको ज्ञेयः॥३॥ खस्वामिदृष्टयुक्तं स्वदेशफलदायकं मुनिभिरुक्तम् । अन्येन सहितदृष्टं परदेशफलप्रदं भवति भाग्यम् ॥४॥ दुश्चिक्यगतो भाग्यं पञ्चमभवनस्थितो ग्रहः पश्येत् । होरागतश्च बलवान् येषां ते मानवाः श्रेष्ठाः ॥५॥ देवगुरौ भाग्यस्थे मन्त्री रविवीक्षिते नृपतितुल्यः । भोगी कान्तः शशिना काञ्चनमा भवति भौमेन ॥६॥ सौम्येन धनी ज्ञेयः सितेन गोवाहनार्थसंयुक्तः। सौरेण स्थावरभाक् दृष्टे खरमहिषसंयुक्तः ॥७॥ ऐश्वर्यरत्नकाञ्चनसाहसभागुत्तमश्च वीर्येण ।
रविरुधिराभ्यां दृष्टे वाहनपरिवारवान्पुरुषः ॥ ८॥ १ यनवमक्षं गृहं. २ कस्मिन् को वा. ३ भाग्.
Aho ! Shrutgyanam