________________
११२
सारावली ।
बोधनसितयोः कर्मणि नीतिज्ञो भवति भूपतिः साधुः । नीचाश्रयो न चाढ्यः सफलारम्भः समर्थश्च ॥ ७० ॥ मलिनशरीरः पापी विद्याधनवाहनैः परित्यक्तः । सौम्यार्कजयोर्लग्ने ह्रस्वायुः क्षीणभाग्यश्च ॥ ७१ ॥ पानान्नबन्धुरहितः स्वजनेषु तिरस्कृतो भवति मूढः । सौम्यार्कजयोर्हिबुके मित्रैश्च विवर्जितः पापः ॥ ७२ ॥ ईश्वरभृतको मूर्खः परोपकारी न साधुरतिमलिनः । सौम्यार्कजयोरस्ते न सत्यवचनो नरो भवति ॥ ७३ ॥ प्रशमितसमस्तशत्रुः स्वजनसुहृद्वाहनार्थसम्पन्नः । सौम्यार्कजयोदशमे द्विजगुरुसुरपूजितो भवति ॥ ७४ ॥ जीवसितयोविलग्ने गुरूपदेशो भवेत्क्षमानाथः । ब्राह्मणकुलसंभूतोऽप्यनुकूलो भवति नृपतुल्यः ॥ ७५ ॥ प्रशमितसमस्तशत्रुः स्वजनसुहृद्वाहनार्थसम्पन्नः । जीवसितयोश्चतुर्थे द्विजगुरुसुरपूजितो भवति ॥ ७६ ॥ सुस्त्रीरत्नार्थयुतः स्त्रीजननो लब्धसौख्यकीर्तिश्च । गुरुशुक्रयोयुवत्यां वरवाहनभोगवान्भवति ॥ ७७॥ गगनस्थौ गुरुशुक्रौ मानाज्ञाविभवविस्तरैः सहितम् । जनयेतां पृथिवीशं बहुभृत्यधनं सुशीलं च ॥ ७८ ॥ लग्ने जीवार्कजयोर्मदालसा निष्ठुराः समभिजाताः । विद्वांसो धनसाराः किञ्चित्सुखिता भवन्ति खलाः ॥७९॥ नृपसचिवो निरुजतनुर्जयोदयी बान्धवैः सुहृद्भिश्च । पातालेऽर्कजगुर्वोः प्रीतिधनः सौख्यवान्भवति ॥ ८०॥ स्त्रीवैरान्नष्टधनः शूरो व्यसनी शठो न शुभमूर्तिः । द्यूने सुरेज्ययमयोः पितृधनलुब्धश्च जायते मूर्खः ॥ ८१ ॥ दशमे भास्करिजीवौ नरेन्द्रदयितं च भूपतिं कुरुतः । अल्पापत्यं नचलं गोकुलबहुवाहनार्थ च ॥ ८२ ॥ रमते सर्ववधूभिः कान्तशरीरः सुखार्थभोगयुतः । . लग्ने भृगुसुतयमयोबहुभृत्यः शोकसन्तप्तः ॥ ८३॥
Aho! Shrutgyanam