________________
एकत्रिंशोऽध्यायः । बन्धुसुतमित्रहीनो मानसपीडाभिरर्दितः पुरुषः । भौमसितयोश्चतुर्थे नानादुःखैर्भवेत्तप्तः ॥ ५६ ॥ स्त्रीलोलुपः कुचरितः स्त्रीहेतोः प्राप्तवान्महादुःखम् । भौमसितयोर्युक्त्यां हीनाचारो भवेत्पुरुषः ॥ ५७ ॥ अस्त्राचार्यों मतिमान् विद्याधनवस्त्रमाल्यवान्भवति । ख्यातो नरेन्द्रसचिवः सितकुजयोयोनि संस्थितयोः॥५८|| संग्रामलब्धविजयो जननीद्वेष्यो भवेत्पुरुषः । भौमार्कजयोलग्ने ह्रस्वायुः क्षीणभाग्यश्च ॥ ५९ ॥ पानान्नसौख्यरहितः स्वजनैत्यक्तो भवति जातः । भौमार्कजयोर्हिबुके मित्रैश्च विवर्जितः पापः ॥ ६० ।। जायासुखसुतहीनो दैन्यपरो व्याधितो व्यसनशीलः । भौमार्कजयोरस्ते जनपरिभूतो भवेत्कृपणः ॥ ६१॥ राज्ञः सम्प्राप्तधनो महापराधाच दण्डितस्तेन । भौमार्कजयोर्दशमे न सत्यवचनो नरो भवति ॥ ६२ ॥ शुभमूर्तिः शुभशीलो विद्वान्नृपसत्कृतो विषयनाथः । बुधजीवयोर्विलग्ने वाहनसुखभोगवान् भवति ॥ ६३ ॥ बन्धुसुहृत्सुखसहितः स्त्रीधनसौभाग्यसम्पन्नः । बुधजीवयोश्चतुर्थे निपुणो नृपसंमतो भवति ॥ ६४ ।। सुकलत्रो हतशत्रुर्बहुजनमित्रार्थसत्त्वसम्पन्नः । बुधजीवयोर्युवत्यामतीत्य पितृपक्षमधिकः स्यात् ।। ६५ ।। बोधनगुर्वोदशमे नरेन्द्रमन्त्री नृपोऽथवा भवति । मानाज्ञाख्यातियुतः श्रौतार्थपरो विनीतश्च ॥६६॥ बुधशुक्रयोर्विलग्ने सुशरीरः पण्डितः सतां सुभगः । नृपपूजितोऽतिधन्यो द्विजसुरभक्तो भवेत्ख्यातः ॥ ६७ ।। बुधशुक्रौ हिबुकस्थौ पुत्रसुहृद्वन्धुसंयुतं सुभगम् । मत्रिणमथवा नृपतिं कुरुतः कल्याणसम्पन्नम् ॥ ६८॥ बुधशुक्रयोर्युवत्यां सद्बहुयुवतिपरिवेष्टितः पुरुषः ।
भोगधनैश्वर्ययुतो भवति सुखी संमतो राज्ञाम् ॥ ६९ ॥ १ बहुसंमतो.
Aho ! Shrutgyanam