________________
११०
सारावली । दासाः खलाः सुरौद्रा भवन्ति लुब्धाश्च मानवा हीनाः । भास्करसुतहिमकरयोलग्ने निद्रालसाः पापाः ॥ ४२ ॥ जलमुक्तामणिपोतैर्जीवन्ति नरास्तथा खननवृत्त्या । हिबुके शशिरविसुतयोः श्रेष्ठा जनसंमता जाताः ॥ ४३ ॥ नगरग्रामपुराणां महत्तरा राजपूजिताः पुरुषाः। जायन्तेऽर्कजशशिनोर्जायाभवने युवतिहीनाः ॥४४॥ प्रचुरतुरंगमदलितारातिः ख्यातः कुयोषितः पुत्रः । भवति नराणामधिपः शशिशनियोगे खमध्यगते ॥४५॥ सौम्यग्रहसंयुक्तः प्रायेण शुभावहो भगणनाथः । भौमार्कियुतो दृष्टो दशमे च चमूपतिं कुर्यात् ॥ ४६॥ हिंस्रोऽग्निकर्मकुशलो धातोर्वादे कृतश्रमो दूतः । भौमबुधयोर्विलग्ने गुप्त्यधिकारी भवेत्पुरुषः ॥ ४७ ॥ बान्धवरहितः सहितो मित्रैश्च धनान्नभोगवाहनवान् । हिबुके बुधभूसुतयोः स्वजनेषु निराकृतो जातः ॥४८॥ भ्रमति च देशाद्देशं कर्मकरो नीचपरिभूतः । भौमेन्दुजयो ने सुविवादकरो मृतप्रथमदारः ॥४९॥ सेनाधिपतिः शूरः शठस्वभावो भवेदतिक्रूरः। बुधकुजयोराकाशे राज्ञोऽभिमतो नरो धीरः ॥ ५० ॥ मत्री गुणप्रधानो धर्मक्षेत्रे प्रलब्धपरिकीर्तिः । जीवकुजयोर्विलग्ने नित्योत्साही भवेत्पुरुषः ॥ ५१ ॥ बन्धुसुहृत्सम्पन्नः स्थिरचित्तः सौख्यभाक् भवेद्धिबुके । भौमामरपूजितयोपसेवी देवगुरुभक्तः ॥ ५२ ॥ गिरिदुर्गतोयकाननविचरणशीलः सुबान्धवः शूरः । कुजजीवयोयुवत्यां जायाहीनः पुमान्भवति ॥ ५३॥ त्रिदशगुरुभूमिसुतयोराकाशे पार्थिवो विपुलकीर्तिः । बहुधनजनपरिवारः कर्मसु निपुणो भवेत्पुरुषः ॥ ५४॥ शुक्रकुजयोर्विलग्ने वेश्यानिरतः कुशीलकर्मा च ।
स्त्रीहेतोर्नष्टधनो न तु चिरजीवी भवेत्पुरुषः ॥ ५५ ॥ 1 नेटो. २ स्थिरवित्तः. ३ कुशिल्प.
Aho! Shrutgyanam