________________
एकत्रिंशोऽध्यायः। क्षुद्रः परधनलुब्धो बहुप्रलापो न सत्यवचनश्च । ईर्ष्यायुक्तो मनुजः कुजशशिनोः सप्तमस्थाने ॥ २८ ॥ तुरगगजपत्तिसम्पत्समाकुलं तुहिनगुर्नरं कुरुते । रुधिरेण समायातो गगनतले विक्रमैर्युक्तम् ॥ २९ ॥ सुखबुद्धिसत्वयुक्तः सुभगः कान्तो विलग्नगे शशिनि । बुधसहिते भवति नरो वाचालश्चातिनिपुणश्च ॥ ३० ॥ बन्धुसुहृत्तनयसुखप्रतापकनकाश्वरत्नसंयुक्तम् । वान्धवराशाविन्दुर्जनयति बुधसंयुतः सुभगम् ॥ ३१ ॥ द्यूने बुधसंयुक्तो जनयति चन्द्रः प्रतापिनं पुरुषम् । नृपसंमतं नृपं वा विख्यातं सत्कविं ललितम् ॥ ३२ ॥ दशमे बुधहिमकरयोर्मानी धनवानतिख्यातः । नृपसचिवो वयसोऽन्ते दुःखी स्याद्वन्धुपरिहीनः ॥३३॥ लग्ने सुरेज्यशशिनोः क्षितिपः पृथुपीनवक्षाः स्यात् । बहुतनयमित्रभार्यः सुशरीरो बन्धुभिर्जुष्टः ॥ ३४ ॥ मन्त्री राजप्रतिमः सुखबन्धुसमन्वितो महाविभवः । बहुशास्त्राक्षतबुद्धिर्हिबुके स्याजीवशशिनोश्च ॥ ३५ ॥ जायाभवने कुरुतः सुप्राज्ञं पार्थिवं कलाकुशलम् । वाणिजकं जीवेन्दू नृपवल्लभमर्थवत्स्फीतम् ॥ ३६॥ कर्मणि सुरेज्यशशिनोविद्यादानार्थमानकीर्तियुतः । सौम्यः प्रलम्बबाहुः सर्वनमस्यो नरो भवति ॥ ३७॥ वेश्यास्त्रीकृतसौख्यः कान्ततनुः संमतो गुरूणां च । माल्याम्बरगन्धयुतो लग्ने शशिशुक्रयोर्भवति ॥ ३८॥ पाताले शशिशुक्रौ स्त्रीजनसुखभागिनं नरं कुरुतः । जलसंयानाप्तधनं जनप्रियं भोगसम्पन्नम् ॥ ३९ ॥ जामित्रे सितशशिनोबहुयुवतिरतो न चातिधनपुत्रः । स्त्रीजननो मेधावी भूपर्तिचरितो भवेत्पुरुषः ॥४०॥ मानाज्ञाविभवयुतः कर्मणि शुक्रे शशाङ्कयुते ।
राज्ञो मन्त्री ख्यातः क्षमान्वितः स्याद्बहुजनश्च ॥४१॥ १ कल्पतरुः. २ भूपतिरजितो.
१० सारा
Aho ! Shrutgyanam