________________
सारावली ।
जीवार्कयोर्गुणयुतो मन्त्री बलनायकोऽथवा साधुः । लग्नस्थयोः प्रसूतौ विद्याधनभोगवान्ख्यातः ॥ १४ ॥ श्रुतिनीतिकाव्यनिरतं भव्यं जनसम्पदं प्रियालापम् । हिबुके सुरेज्यसूयौं निभृताचारं नरं कुरुतः ॥ १५ ॥ जीवार्कयोर्युवत्यां मदनवशात्स्त्रीजितः पितृद्वेषी । कनकमणिरजत मौक्तिकसमन्वितः शुभशरीरः स्यात् ॥ १६ ॥ कीर्तिसुखमानविभवैः समन्वितः पार्थिवो भवेन्नभसि । रविदेवपुरोहितयोर्निन्द्येऽपि कुले नरो जातः ॥ १७ ॥ प्रियकलहस्त्वविनीतो मलिनाचारः सुदुःखितो नीचः । लग्ने रविभृगुसुतयोरत्यर्थकलत्र सम्परित्यक्तः ॥ १८ ॥ आदित्ये हिबुकस्थे भार्गवसहिते भवेन्नरो जातः । परभृत्यः शोकार्तो लोकद्वेष्यो दरिद्रश्च ॥ १९ ॥ स्त्रीभिः सम्परिभूतो द्रविणविहीनो वृहत्तनुर्द्वष्यः । शैलवनेषु च विचरति रविसितयोः सप्तमस्थाने ॥ २० ॥ कर्मणि दिनकरसितयोर्व्यवहाररतो नरेन्द्रसचिवः स्यात् । शास्त्र कला निपुणमतिर्धन वाहन सौख्यसम्पन्नः ॥ २१ ॥ निन्दितजननीपुत्रः कुत्सितवृत्तिः सदा मलिनबुद्धिः । लग्ने सूर्यार्कजयोः पापाचारो भवेत्पुरुषः ॥ २२ ॥ सौरिश्चतुर्थराशौ भास्करसहिते पुमान् भवति नीचः । दारिद्र्यविहितमूर्तिः खबन्धुभिश्चापि परिभूतः ॥ २३ ॥ भान्वर्कजयोर्मदने मन्दालसदुर्भगाश्च जायन्ते । युवतिधनैः सन्त्यक्ता मृगयाभिरता महामूखीः ॥ २४ ॥ भानुः स्वपुत्रसहितो गगने भृतकं विदेशगं जनयेत् । नृपतेः कचिदाप्तधनैश्चोरैर्मुषितं सदश्वधनम् ॥ २५ ॥ रक्ताग्निपित्तदोषैरभिभूतो जायते नरो राजा । क्षोणीसुतहिमकरयोर्लने तीक्ष्णस्वभावश्च ॥ २६ ॥ सक्लेशो निद्रव्यः सुखसुतधनबन्धुहीनश्च । पाताले कुजशशिनोर्विकलश्च भवेत्तथा जातः ॥ २७ ॥ १ पित्तरोगैः.
१०८
Aho! Shrutgyanam