________________
एकत्रिंशोऽध्यायः।
एकत्रिंशोऽध्यायः। होराचतुर्थसप्तमदशमेषु यथा द्वयोर्द्वयोर्ग्रहयोः । भवति फलसम्प्रयोगो जातस्य तथायमुपदेशः ॥ १॥ मातृपितृदुःखतप्तः सूर्येन्द्वोरुदयसंस्थयोर्मनुजः । मानसुतविभवहीनः परिभूतो जायते दुःखी ॥२॥ बान्धवसुतसुखहीनो दारिद्ययुतो महाजडप्रकृतिः । चन्द्रे रसातलस्थे भास्करसहिते पुमान् जातः॥ ३॥ मित्रैः सुतैश्च हीनः परिभूतो युवतिभिः सदा पुरुषः । चन्द्रे सप्तमभवने दिनकरसहिते भवेद्दीनः ॥ ४ ॥ सुशरीरं बलनाथं राजसिकं निर्दयं विषमशीलम् । सूर्येन्दू गगनस्थौ कुरुतः क्षपितारिपक्षं च ॥५॥ रविभौमयोर्विलग्ने पित्तप्रकृतिर्महाहवे शूरः । क्रोधी विक्षतगात्रः क्रूरश्च शठः कठोरः स्यात् ॥ ६ ॥ वन्धुजनवित्तहीनः समस्तसुखवर्जितः क्षुभितः ।। कुजसूर्ययोश्चतुर्थे भवति पुमान् सर्वतो द्वेष्यः ॥ ७॥ स्त्रीविरहदुःखखिन्नः स्त्रीहेतोः परिभवं सदा प्राप्तः । रविरुधिरयोयुवत्यां विदेशगमने रतो भवति ॥८॥ विफलारम्भो भृतको नित्योद्विग्नः प्रधाननृपसेवी । भूतनयदिवाकरयोः कर्मणि गतयोर्भवेद्विकलः ॥ ९॥ प्राज्ञो बहुप्रलापी कठिनाङ्गः शूरवल्लभो मतिमान् । लग्ने बुधदिनकरयोर्दीर्घायुः संभवेत्पुरुषः ॥ १० ॥ नृपतिसमो विख्यातो गृहीतकाव्यः कुबेरसमविभवः । रविशशितनयौ हिबुके स्थूलतनुर्वक्रनासश्च ॥११॥ वधबन्धनकृन्मृत्युगृहीतवाक्यो न चातिधनलुब्धः । स्त्रीरतिहीनश्चोरो छूने बुधसूर्ययोर्भवति ॥ १२ ॥ त्रिषु लोकेषु ख्यातो गजाश्वनाथो भवेन्महीपालः । दिनकरबुधयोर्दशमे न नीचराशिस्थयोरेव ॥१३॥ १ मित्रहीनः, विभवहीनः. २ अज्ञो.
Aho ! Shrutgyanam