________________
१०६
सारावली |
मलिनः संस्कृतदेहो नीचोऽलसपरिजनो भवति सौरे | शूरो दानानुरतो दुश्चिक्यगते विपुलबुद्धिः ॥ ७६ ॥ पीडितहृदयो हिबुके निर्बान्धववाहनार्थमतिसौख्यः । बाल्ये व्याधितदेहो नखरोमधरो भवेत् सौरे ॥ ७७ ॥ सुखसुतमित्रविहीनं मतिरहितमचेतसं त्रिकोणस्थः । सोन्मादं रवितनयः करोति पुरुषं सदा दीनम् ॥ ७८ ॥ प्रबलमदनं सुदेहं शूरं बह्वाशिनं विषमशीलम् । बहुरिपुपक्षक्षपितं रिपुभवनगतोऽर्कजः कुरुते ॥ ७९ ॥ सततमनारोग्यतनुं मृतदारं धनविवर्जितं जनयेत् । द्यूनेऽर्कजः कुवेपं पापं बहुनीचकर्माणम् ॥ ८० ॥ कुष्ठभगन्दर रोगैरभितप्तं ह्रस्वजीवितं निधने । सर्वारम्भविहीनं जनयति रविजः सदा पुरुषम् ॥ ८१ ॥ धर्मरहितोऽल्पधनिकः सहजसुतविवर्जितो नवमसंस्थे । रविजे सौख्यविहीनः परोपतापी च जायते मनुजः ॥ ८२ ॥ धनवान् प्राज्ञः शूरो मन्त्री वा दण्डनायको वाऽपि । दशमस्थे रवितनये वृन्दपुरग्रामनेता च ॥ ८३ ॥ बह्वायुः स्थिरविभवः शूरः शिल्पाश्रयो विगतरोगः । आयस्थे भानुसुते धनजनसम्पद्युतो भवति ॥ ८४ ॥ विकलः पतितो मुखरो विषमाक्षो निर्वृणो विगतलजः । व्ययभवनगते सौरे बहुव्ययः स्यात् सुपरिभूतः ॥ ८५ ॥
॥ इति शनिः ॥
पापा निघ्नन्ति मूर्त्यादीन् भावान् पुष्णन्ति शोभनाः । विपरीतं रिपूरन्ध्रव्ययेषु सदसत्फलम् ॥ ८६ ॥ योगों ये बलयोगाः सौम्यसुहृद्रिपुनिरीक्षणाञ्चैव । उच्चादिभवन संस्थैर्ग्रहैश्च फलमन्यथा भवति ॥ ८७ ॥ इति कल्याणवर्मविरचितायां सारावल्यां भावाध्यायस्त्रिंशः ॥
१ विचेतसं. २ ऽपथरतः ३ शिल्पाश्रितो. ४ योगाश्रय. ५ योगात्सौम्य.
Aho! Shrutgyanam