SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ त्रिंशोऽध्यायः। सुखधनसहितं शुक्रो दुश्चिक्ये स्त्रीजितं तथा कृपणम् । जनयति मन्दोत्साहं सौभाग्यपरिच्छदातीतम् ॥ ६४ ॥ बन्धुसुहृत्सुखसहितं कान्तं वाहनपरिच्छदसमृद्धम् । ललितमदीनं सुभगं जनयति हिबुके नरं शुक्रः ॥ ६५ ॥ सुखसुतमित्रोपचितं रतिपरमतिधनमखण्डितं शुक्रः । कुरुते पञ्चमराशौ मत्रिणमथ दण्डनेतारम् ॥ ६६ ॥ अधिकमनिष्टं स्त्रीणां प्रचुरामित्रं 'निराकृतं विभवैः । विक्लवमतीव नीचं कुरुते षष्ठे भृगोस्तनयः ॥ ६७ ॥ अतिरूपदारसौख्यं बहुरूपं कलहवर्जितं पुरुषम् । जनयति सप्तमधामनि सौभाग्यसमन्वितं शुक्रः ॥ ६८ ॥ दीर्घायुरनुपमसुखः शुक्रे निधनाश्रिते धनसमृद्धः । भवति पुमान् नृपतिसमः क्षणे क्षणे लब्धपरितोषः ॥६९॥ सममायततनुवित्तो दारयुवतिसुखसुहृज्जनोपेतः । भृगुतनये नवमस्थे सुरातिथिगुरुप्रसक्तः स्यात् ॥ ७० ॥ उत्थानविवादजिताः सुखरतिभावार्थकीर्तयो यस्य । दशमस्थे भृगुतनये भवति पुमान् बहुमतिख्यातः ॥७१॥ प्रतिरूपदासभृत्यं बह्वायं सर्वशोकसन्त्यक्तम् । जनयति भवभवनगतो भृगुतनयः सर्वदा पुरुषम् ॥७२॥ अलसं सुखिनं स्थूलं पतितं मृष्टाशिनं भृगोस्तनयः । शयनोपचारकुशलं द्वादशगः स्त्रीजितं जनयेत् ॥७३॥ ॥ इति शुकः ॥ खोचस्वकीयभवने क्षितिपालतुल्यो । - लग्नेऽर्कजे भवति देशपुराधिनाथः । शेषेषु दुःखगदपीडित एव बाल्ये दारिद्यर्कर्मवशगो मलिनोऽलसश्च ॥ ७४ ॥ विकृतवदनोऽर्थभोक्ता जनरहितो न्यायकृत्कुटुम्बगते । पश्चात्परदेशगतो जनवाहनभोगवान् सौरे ॥ ७५ ।। - १ विनाकृतं. २ बहुविभवं. ३ उत्थानविवादार्जितसुखरतिमानार्थकीर्तयो. ४ कामवशगो. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy