________________
१०४
सारावली ।
धनवान् भोजनसारो वाग्मी सुवपुः सुवाक् सुवक्रश्च । कल्याणवपुस्त्यागी सुमुखो जीवे भवेद्धनगे ॥ ५१ ॥ अतिपरिभूतः कृपणः संदाजितो मानवो भवति जीवे । मन्दाग्निस्त्रीविजितो दुश्चिक्ये पापकर्मा च ॥ ५२ ॥ स्वजनपरिच्छदवाहनसुखमतिभोगार्थसंयुतो भवति । श्रेष्ठः शत्रुविषादी चतुर्थसंस्थे सदा जीवे ॥ ५३ ॥ सुखसुतमित्र समृद्धः प्राज्ञो धृतिमांस्तथा विभवसारः । पञ्चमभवने जीवे सर्वत्र सुखी भवति जातः ॥ ५४ ॥ सन्नोदराग्निपुंस्त्वः परिभूतो दुर्बलोऽलसः षष्ठे । स्त्रीविदितो रिपुहन्ता जीवे पुरुषोऽतिविख्यातः ॥ ५५ ॥ सुभगः सुरुचिरदारः पितुरधिकः सप्तमे भवति जातः । वक्ता कविः प्रधानः प्राज्ञो जीवे सुविख्यातः ॥ ५६ ॥ परिभूतो दीर्घायुर्भृतको दासोऽथवा निधनसंस्थे । स्वजनप्रेष्यो दीनो मलिनस्त्रीभोगवान् जीवे ॥ ५७ ॥ दैवतपितृकार्यरतो विद्वान् सुभगो भवेत्तथा नवमे । नृपमत्री नेता वा जीवे जातः प्रधानश्च ॥ ५८ ॥ सिद्धारम्भो मान्यः सर्वोपायः कुशलसमृद्धश्च । दशमस्थे त्रिदशगुरौ सुखधनजनवाहनयशोभाक् ॥ ५९ ॥ अपरिमितायद्वारो बहुवाहनभृत्यसंयुतः साधुः । एकादशभे जीवे न चातिविद्यो न चातिसुतः ॥ ६० ॥ अलसो लोकद्वेष्यो ह्यपगतवाग्दैवपक्षभग्नो वा । परितः सेवानिरतो द्वादशसंस्थे गुरौ भवति ॥ ६१ ॥
॥ इति गुरुः ॥
सुनयनवदनशरीरं सुखितं दीर्घायुषं तथा भीरुम् । युवतिजननयनकान्तं जनयति होरागतः शुक्रः ॥ ६२ ॥ प्रचुरान्नपानविभवं श्रेष्ठैविलासं तथा सुवाक्यं च । कुरुते द्वितीयराशौ बहुधनसहितं सितः पुरुषम् ॥ ६३ ॥
१ सहजातो, सहज जितो. २ सुजन प्रेष्यो.
३ शिष्ट.
Aho! Shrutgyanam