SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ त्रिंशोऽध्यायः। अनुपहतदेहबुद्धिर्देशकुलाज्ञानकाव्यगणितज्ञः । अतिमधुरचतुरवाक्यो दीर्घायुः स्यादुधे लग्ने ॥ ३८ ॥ बुद्ध्योपार्जितविभवो धनभवनगतेऽन्नपानभोगी च । शोभनवाक्यः सुनयः शशितनये मानवो भवति ॥ ३९ ॥ श्रमनिरतः परिदीनस्तृतीयराशौ बुधे भवति जातः । निपुणः सहजसमेतो मायाबहुलो नरश्चलितः ॥ ४० ॥ पण्डितमाहुः सुभगो वाहनयुक्तो बुधे हिवुकसंस्थे । सुपरिच्छदः सुबन्धुर्भवति नरः पण्डितो नित्यम् ॥ ४१ ॥ मन्त्राभिचारकुशलो बहुतनयः पञ्चमे सौम्ये । विद्यासुखप्रभावैः समन्वितो हर्षसंयुक्तः ॥ ४२ ॥ वादविवादे कलहे नित्यजितो व्याषितो बुधे षष्ठे । अलसो विनष्टकोपो निष्ठुरवाक्योऽतिपरिभूतः ॥४३॥ प्रज्ञां शुचारवेषां नातिकुलीनां च कलहशीलां च । भार्यामनेकवित्तां छूने लभते महत्त्वं च ॥४४॥ विख्यातनामसारश्चिरजीवी कुलधरो निधनसंस्थे । शशितनये भवति नरो नृपतिसमो दण्डनायको वाऽपि ॥४५॥ नवमगते भवति पुमानतिधनविद्यायुतः शुभाचारः । वागीश्वरोऽतिनिपुणो धर्मिष्ठः सोमपुत्रे हि ॥४६॥ प्रवरमतिकर्मचेष्टः सकलारम्भो विशारदो दशमे । धीरः सत्वसमेतो विविधालारसत्वभाक् सौम्ये ॥४७॥ धनवान् विधेयभृत्यः प्राज्ञः सौख्यान्वितो विपुलभोगी । एकादशे बुधे स्याद्वह्वायुः ख्यातिमान् पुरुषः ॥४८॥ सुगृहीतवाक्यमलसं परिभूतं वाग्मिनं तथा प्राज्ञम् । व्ययगः करोति सौम्यः पुरुषं दीनं नृशंसं च ॥४९॥ ॥ इति बुधः ॥ होरासंस्थे जीवे सुशरीरः प्राणवान् सुदीर्घायुः । सुसमीक्षितकार्यकरः प्राज्ञो धीरस्तथार्यश्च ॥ ५० ॥ १ श्रुतिनिरतः परिभूतः. २ नरस्सचलः. ३ विद्यासुखप्रतापैः. ४ सफलारम्भो. ५ सत्य. Aho ! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy