________________
सारावली ।
त्रिंशोऽध्यायः ।
मूर्त्यादयः पदार्था जायन्ते येन सर्वजन्तूनाम् । तस्मादधुना वक्ष्ये भावाध्यायं विशेषेण ॥ १ ॥ लग्नेऽर्केऽल्पचः क्रियालसमतिः क्रोधी प्रचण्डोन्नतो मानी लोचनरूक्ष कर्कशतनुः शूरोऽक्षमो निर्घृणः । स्फोटाक्षः शशिभे किये सतिमिरः सिंहे निशान्धः पुमान् दारिद्योपहतो विनष्टतनयो जातस्तुलायां नरः ॥ २ ॥ द्विपदचतुष्पद' भागी मुखरोगी नष्टविभवसौख्यश्च । नृपचोरमुपितसारः कुटुम्ब स्याद्रवौ पुरुषः ॥ ३ ॥ विक्रान्तो बलयुक्तो विनष्टसहजस्तृतीयके सूर्ये । लोके मंतोऽभिरामः प्राज्ञो जितदुष्टपक्षश्च ॥ ४ ॥ वाहनबन्धुविहीनः पीडितहृदयश्चतुर्थके सूर्ये । पितृगृहधननाशकरो भवति नरः कुनृपसेवी च ॥ ५ ॥ सुखसुतवित्तविहीनः कर्षणगिरिदुर्गसेवकश्चपलः । मेधावी धनरहितः स्वल्पायुः पञ्चमे तपने ॥ ६ ॥ प्रबलमदनोदराग्निर्बलवान् षष्ठं समाश्रिते भानौ । श्रीमान् विख्यातगुणो नृपतिर्वा दण्डनेता वा ॥ ७ ॥ निःश्रीकः परिभूतः कुशरीरो व्याधितः पुमान् द्यूने । नृपबन्धनसन्तप्तोऽमार्गरतो युवतिविद्वेषी ॥ ८ ॥ विकलनयनोऽष्टमस्थे धनसुखहीनोऽल्पजीवितः पुरुषः । भवति सहस्रमयूखे स्वभिमतजन विरहसन्तप्तः ॥ ९॥ धनपुत्रमित्रभागी द्विजदैवतपूजनेऽतिरक्तश्च । पितृयोषिद्विद्वेषी नवमे तपने सुतप्तः स्यात् ॥ १० ॥ अतिमतिरतिविभवबलो धनवाहनबन्धुपुत्रवान् सूर्ये । सिद्धारम्भः शूरो दशमेऽधृष्यः प्रशस्यश्च ॥ ११ ॥ सञ्चयनिरतो बलवान् द्वेष्यः प्रेष्यो विधेयभृत्यश्च । एकादशे विधेयः प्रियरहितः सिद्धकर्मा च ॥ १२ ॥
१ भोगी. २ मनो. ३ व्याधितो रवौ द्यूने. ४ भक्तश्च ५ विभृत्यश्च.
१००
Aho! Shrutgyanam