SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ एकोनत्रिंशोऽध्यायः । परपुत्राणां पितरं गुरुभे सूर्येक्षितः सौरः । तेभ्यो धनं च लभते नाम ख्यातिं च पूजां च ॥ ५५ ॥ मातृरहितं सुशीलं नामद्वयसंयुतं वेस्तनयः । कुरुते शशिना दृष्टो भार्यासुतवित्तसम्पन्नम् ॥ ५६ ॥ वातव्याधिगृहीतं लोकद्वेष्यं चे पापशीलं च । क्षुद्रं निन्दितशीलं गुरुभे भौमेक्षितः सौरः ॥ ५७ ॥ जनयति गुरुमवनस्थो नृपतिसमं सौख्यवन्तमाचार्यम् । मान्यं धनिनं सौम्यं सुभगं सौम्येक्षितः सौरः ॥ ५८ ॥ नृपतिं नृपतुल्यं वा मत्रिणमथ नायकं च सेनायाः । जनयति गुरुणा दृष्टः संवीपद्वर्जितं सौरः ॥ ५९ ॥ कुरुते द्विमातृपितृकं विपिनाद्रिषु जीविनं विविधशीलम् । जनयति सितेन दृष्टो रवितनयः कर्मसम्पन्नम् ॥ ६० ॥ ॥ इति गुरुभे दृष्टिः ॥ -९९ रोगिणमरूपभार्यं परान्नभोगिनमतीव दुःखसहम् । अटनरतं भारसहं सौरः सूर्येक्षितः स्वगृहे ॥ ६१ ॥ चपलमसत्यं पापं मातुरनिष्टं प्रियानृतं खाढ्यम् । उत्पन्नाटनदुःखं खगृहे चन्द्रेक्षितः सौरः ॥ ६२ ॥ अतिशूरं विक्रान्तं विख्यातगुणं महाजनपुरोगम् । तीक्ष्णं साहसनिरतं स्वगृहे वक्रेक्षितः सौरः ॥ ६३ ॥ भारसहं तामसिकं शोभनमटनज्ञमल्पवित्तं च । धन्यं जनयति शनिभे बुधेन संवीक्षितः सौरः ॥ ६४ ॥ समुदितगुणं नरेन्द्रं नृपवंशकरं चिरायुषमरोगम् । त्रिदशगुरुदृष्टमूर्तिर्जनयति सौरः स्वगृहसंस्थः ॥ ६५ ॥ धनिनं परदाररतं सुभगं सुखिनं च वित्तवन्तं च । उत्पन्नपानभक्ष्यं स्वगृहे शुक्रेक्षितः सौरः ॥ ६६ ॥ ॥ इति स्वगृहे दृष्टिः ॥ इति कल्याणवर्मविरचितायां सारावल्यां सौरचारो नाम एकोनत्रिंशोऽध्यायः ॥ १ प्रवासशीलं. २ शनिः सचिवमर्थवर्जितं गुरुमे. Aho! Shrutgyanam
SR No.009887
Book TitleSaravali
Original Sutra AuthorN/A
AuthorKalyanvarman, V Subhramanya Shastri
PublisherPandurang Javji
Publication Year1928
Total Pages268
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy