________________
सारावली ।
पित्रा रहितं बाल्ये दिनपतिदृष्टः शनैश्चरः शशिभे । धनसुखदारविहीनं कदशनतुष्टं नरं पापम् ॥४३॥ जन्मनि मातुरनिष्टं धनवन्तं सहजपीडितं चैव । शशिदृष्टः शशिभवने दिनकरपुत्रो नरं कुरुते ॥४४॥ नृपतिसमर्पितविभवं विकलाङ्गं कनकरत्नपरिवारम् । कुजदृष्टः शशिभवने कुवन्धुपत्नीरतं सौरिः ॥ ४५ ॥ निष्ठुरमतिप्रवाचं शमितारातिं च दाम्भिकं चापि । जनयत्युत्तमचेष्टं बुधदृष्टो भास्करिः शशिभे ॥४६॥ क्षेत्रगृहाणां सुहृदां पुत्राणां भागिनं नरं कुरुते । धनरत्नदारवन्तं शशिभे गुरुवीक्षितः सौरः ॥४७॥ आयतकुलजातानां रूपविलासैः सुखैश्च रहितानाम् । कुरुते जन्म नराणां भृगुदृष्टः कर्कटे सौरिः ॥४८॥
॥ इति कर्कटके दृष्टिः ॥ सुखधनहीनमनार्य प्रियानृतं पानसक्तकुतनुं च । भृतकं दुःखिनमेकं सिंहे सूर्यक्षितः सौरः ॥४९॥ नानारत्नधनानां युवतीनां भाजनं विपुलकीर्तिम् । शिशिरगुदृष्टः सिंहे सौरो नृपवल्लभं पुरुषम् ॥ ५० ॥ प्रतिदिनमटनमधन्यं चोरं गिरिदुर्गवासिनं क्षुद्रम् । भार्यापुत्रविहीनं सिंहे सोरो रुधिरदृष्टः ॥५१॥ नैकृतिकमलसमधनं स्त्रीकर्मकरं मलीमसं दीनम् । जनयति बुधेन दृष्टो दिनकरभवनाश्रितः सौरिः ॥ ५२ ॥ ग्रामपुरश्रेणीनां पुरोगमाव्यं च पुत्रवन्तं च । गुरुदृष्टः प्रात्ययिकं सिंहे सौरः सुशीलं च ॥ ५३॥ युवतिद्वेष्यं कान्तं मन्थरसुखभागिनं धनसमृद्धम् । शुक्रेक्षितस्तु कुरुते भानुगृहे रविसुतः स्वन्तम् ॥ ५४॥
॥ इति सिंहे दृष्टिः ॥
१ पत्नीश्वरं.
Aho ! Shrutgyanam