________________
एकोनत्रिंशोऽध्यायः। स्फुटवाक्यं विगतधनं विद्वांसं परगृहेषु भोक्तारम् । रविणा दृष्टः सौरिः सितभे परिपेलवं पुरुषम् ॥ ३१ ॥ युवतिजनजनितसारं नृपमत्रिपुरस्कृतं युवतिकान्तम् । शशिना दृष्टः सौरिः कुरुते सितभे कुटुम्बपरिवारम् ॥३२॥ संग्रामकथाभिज्ञं संग्रामपलायिनं सुबहुवाक्यम् । भृगुभे कुजसन्दृष्टो जनधनपरिवेष्टितं सौरः ॥ ३३॥ नित्यं विहसनशीलं क्लीबतरं युवतिसेवकं नीचम् । बुधदृष्टो रवितनयः शुक्रगृहे मानवं कुरुते ॥ ३४ ॥ परविषयदुःखसुखिनं परकार्यकरं प्रियं च लोकस्य । कुरुते गुरुणा दृष्टो दातारं सोद्यमं सौरिः ॥ ३५॥ मद्यस्त्रीकृतसौख्यं रत्नानां भाजनं महासत्वम् । शुक्रगृहे सितदृष्टो जनयति सौरो नृपतिदयितम् ॥ ३६॥
॥ इति शुकगृहे दृष्टिः ॥ सुखरहितमथात्यन्तं धनरहितं धार्मिकं जितक्रोधम् ।
शसहिष्णुं धीरं बुधभे रविवीक्षितः सौरिः ॥ ३७॥ नृपतुल्यं स्निग्धतनुं नारीभ्यः प्राप्तविभवसत्कारम् । स्त्रीणां वा कृत्यकरं सौरश्चन्द्रक्षितो बुधमे ॥ ३८॥ विख्यातमलमोहितमतिभारवहं तथा विकृतगात्रम् । रुधिराङ्गवीक्षिततनुर्जनयति सौरो नरं बुधभे ॥ ३९ ॥ धनिनं नियुद्धकुशलं नृत्ताचार्यं च गीतकुशलं च । शिल्पकमतीव निपुणं बुधभे बुधवीक्षितः सौरः ॥ ४० ॥ प्रात्ययिकं राजकुले सर्वगुणसमन्वितं सतामिष्टम् । गुणगुह्यधनं कुरुते गुरुणा दृष्टः शनैश्वारी ॥४१॥ स्त्रीमण्डलेषु कुशलं योगाचार्यमथ योगिनं वॉऽपि । शुक्रेक्षितोऽर्कपुत्रः स्त्रीणामिष्टं नरं बुधभे ॥ ४२ ॥
॥ इति वुधभवने दृष्टिः ॥
१ सितमे वन्नान्नकुसुमपरिवार. २ क्लीबकर. ३ विकृष्टमतिम्. ४ मण्डनेषु. ५ चापि.
९ सारा०
Aho! Shrutgyanam