________________
सारावली । अन्त्ये वयसि च लक्ष्मी भुनक्ति परमां प्रलब्धमानस्तु । अल्पवचा बहुसंज्ञो मृदुर्यमे कार्मुकस्थे स्यात् ॥ १८॥ परयोषिक्षेत्राणां प्रभुः श्रुतिगुणैर्युतश्च बहुशिल्पः । श्रेष्ठश्च वंशजातैः पूज्यः परवृन्दसत्कृतः ख्यातः ॥ १९ ॥ स्नानविभूषणनिरतः क्रियाकलाज्ञः प्रवासशीलश्च । कोणे मृगभे जातः प्रजातशौर्योपचारः स्यात् ॥ २० ॥ बह्वनृतः सुमहान्स्यान्मद्यस्त्रीव्यसनसम्प्रसक्तश्च । धूर्ती वञ्चनशीलः कुसौहृदो ह्यतिदृढश्चण्डः ॥ २१ ॥ ज्ञानकथास्मृतिबाह्यः पराङ्गनार्थः सुकर्कशाभाषी । रवितनये कुम्भस्थे बहुक्रियारम्भकृतयत्नः ॥ २२ ॥ प्रिययज्ञशिल्पविद्यः खबन्धुसुहृदां प्रधानशान्तश्च । संवर्धितार्थसुनयो रत्नपरीक्षासु कृतयत्नः ॥ २३॥ धर्मव्यवहाररतो विनीतशीलो गुणैः समायुक्तः । मीने भास्करतनये पश्चाद्भावास्पदं पुरुषः ॥ २४ ॥ कर्षणनिरतमथाढ्यं गोमहिपाजाविसंयुतं धन्यम् । सूर्येण दृश्यमानो जनयति कर्मोद्यतं सौरिः ॥ २५ ॥ चपलं नीचप्रकृतिं नीचविरूपाङ्गनासु संसक्तम् । शनिरिन्दुदृष्टमूर्तिः सुखधनरहितं नरं कुरुते ॥ २६ ॥ प्राणिवधपरं क्षुद्रं कुरुते चोराधिपं सुविख्यातम् । प्रिययुवतिमांसपानं सौरो वक्रेक्षितः कुजभे ॥ २७ ॥ आनृतिकमधर्मपरं बह्वाशं तस्करं प्रकाशं च । कौजे शनिदृष्टः सुखविभवविनाकृतं पुरुषम् ॥ २८॥ सुखधनसौभाग्ययुतं नृपमत्रिणमग्रगं च सचिवानाम् । गुरुदृष्टो रवितनयः कुजगेहे मानवं कुरुते ॥ २९ ॥ अतिचपलमतिविरूपं पराङ्गनापण्ययुवतिसंसक्तम् । कुजभवने भृगुदृष्टो जनयति रविजो विवर्जितं भोगैः ॥३०॥
॥ इति कुजभवने दृष्टिः ॥ ... 5 धूर्तकवञ्चनकुशलः. २ बहुवाचं.
Aho ! Shrutgyanam