________________
त्रिंशोऽध्यायः।
१०१ विकलशरीरः काणः पतितो वन्ध्यापतिः पितुरमित्रः । द्वादशसंस्थे सूर्ये बलरहितो जायते क्षुद्रः ॥ १३ ॥
॥ इति रविः॥ दाक्षिण्यरूपधनभोगगुणैः प्रधान
श्चन्द्रे कुलीरवृषभाजगते विलग्ने । उन्मत्तनीचबधिरो विकलश्च मूकः
शेषे नरो भवति कृष्णतनुर्विशेषात् ॥ १४ ॥ अललितसुखमित्रयुतो धनैश्च चन्द्रे द्वितीयराशिगते । सम्पूर्णेऽतिधनेशो भवति नरोऽल्पप्रलापकरः ॥ १५ ॥ भ्रातृजनाश्रयणीयो मुदान्वितः सहजगे बलिनि । चन्द्रे भवति च शूरो विद्यावस्त्रान्नसङ्ग्रहणशीलः ॥ १६ ॥ बन्धुपरिच्छदवाहनसहितो दाता चतुर्थगे चन्द्रे । जलसंचारानुरतः सुखासुखोत्कर्षपरिमुक्तः ॥१७॥ चन्द्रे भवति न शूरो विद्यावस्त्रान्नसङ्ग्रहणशीलः । बहुतनयसौम्यमित्रो मेधावी पञ्चमे तीक्ष्णः ॥ १८॥ प्रचुरामित्रस्तीवो मृदुकायाग्निर्मदालसश्चन्द्रे । षष्ठे वृकोदरभवै रोगैः सम्पीडितो भवति । रजनिकरे स्वल्पायुः षष्ठगते भवति संक्षीणे ॥ १९ ॥ सौम्यो धृष्यः सुखितः सुशरीरः कामसंयुतो छूने । दैन्यरुगर्दितदेहः कृष्णे संजायते शशिनि ॥ २० ॥ अतिमतिरतितेजस्वी व्याधिविबन्धक्षपितदेहः । निधनस्थे रजनिकरे स्वल्पायुर्भवति संक्षीणे ॥ २१ ॥ दैवतपितृकार्यपरः सुखधनमतिपुत्रसंपन्नः । युवतिजननयनकान्तो नवमे शशिनि प्रियतमोद्योतः ॥२२॥ अविषादी कर्मपरः सिद्धारम्भश्च धनसमृद्धश्च । शुचिरतिवलोऽथ दशमे शूरो दाता भवेच्छशिनि ।॥ २३॥ धनवान् बहुसुतभागी बह्वायुः स्विष्टभृत्यवर्गश्च
इन्दौ भवेन्मनस्वी तीक्ष्णः शूरः प्रकाशश्च ॥ २४ ॥ १ बालाशयानुरक्तः. २ षष्टे नर उदरभवैः. ३ प्रियसमाक्षः.
Aho ! Shrutgyanam