________________
अथ चतुर्थः परिच्छेदः ।
अथ श्रीनमस्कारकल्पा(१)दुपयोगिविषयो लिख्यते (२) ॥
ओं नमः पञ्च परमेष्ठिने । अथ कतिपये पञ्चपरमेष्ठिनां (३) सम्प्रदायात् स्वसंवेदनत
आम्नाया लिख्यन्ते । . १-पच्चानामादिपदानां पञ्चपरमेष्ठिमुद्रया जापे कृते समस्तक्षुदो पद्रवनाशः कर्मक्षयश्च ॥ - २-तत्र कर्णिकायामाद्यम्पदम्, (४) शेषाणि चत्वारिसृष्टया (५) शङ्खा. वर्त्त (६) विधिना, सकलस्य १०८ स्मरण शाकिन्यादयो न प्रभवन्ति ॥
१-ग्रन्थस्यादाववसाने च निर्मातुराख्याया असत्वादेष कदा केन च दृब्ध इति नो निश्चीयते, लिखितमस्ति ग्रन्थावसाने केवलमेतदेव यद् "इति नमस्कारकल्पः समाप्तः संवत् १८६६ मिते माधवदि ६ श्रीबीकानेरे लि० पं० महिमाभक्ति मुनिना” इति, पुरातनत्वे तु ग्रन्थस्यास्य न काचिदारेकेत्यवगन्तव्यम्, सर्वेऽस्याम्नाया अपिकिलयाथार्थ्यभाजएवेति विद्वजनप्रथादो भक्तिमातनोत्येवात्रेति नास्य शङ्कास्पदं कोऽपि विषयः ॥ २-यद्यप्यहमदाबादस्थ “नानालाल" महोदयेन लिखिते, मुम्बई नगरस्थ "मेघजी हीरजो” महोदयेन प्रकाशमानीते, अहमदाबादस्थ "श्रीसत्यविजयप्रिण्टिंग. प्रेस” नामके च यन्त्रालये मुद्रणमुपगते "श्रीनवकारमन्त्रसङ्ग्रह” नामक पुस्तके वशीकरणादिप्रयोगमन्त्रा अपि सविधि विविधाः प्रकोशमानीता विद्यन्ते तथापि सं. सारिणां केषाञ्चिद्रक्तद्विष्टान्तःकरणानामपात्रत्त्वसमन्वितानामसुमतां विधिविशेषसमवाप्तौ मा भूद्धानिस्तैर्वाऽन्येषामित्यालोच्य मया सर्वसाधारणोपयोगिनो विषया एव सन्दर्भादेतस्मादुधृत्यालिख्यन्ते, अनुमोदिष्यन्त एव सहृदयाः पाठका मदीयमेतं विचारमित्याशासेऽहम्, मन्त्राराधने वस्त्रासनाद्युपयोगविधिः, मन्त्रान्तःस्थपदविशेपार्थश्च संक्षेपेण भाषाटीकायामने लेखिष्यते ॥ ३-बहुवचनं चिन्त्यम् ॥ ४-ध्यातव्य.
कोषः ॥ ५-स्वभावेन रचनया वा ॥ ६-शङ्खस्य यदावर्तनं तदुपविधिना ॥
Aho! Shrutgyanam