SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ग्रहयुत्यधिकारः । कलेषुणा कलात्मकशरेण पलप्रभागुणेन वगै ७२ हृतेन फलेन ग्रहस्य मध्यमक्रान्तिभवं चरं संस्कृत्य स्फुटं चरं साध्यं ततः स्फुटाञ्चरात् दिनं दिनमानं साध्यम् । ग्रहस्यैष्यो भोग्यकालस्तात्कालिकलग्नस्य गतकालेनान्तरोदयैश्च युक् एवं युतौ युतिसमये ग्रहस्योन्नतकालो भवेदिति शेषः । एवं दृश्ययुतौ स चन्द्रशृङ्गोन्नतिवद्विधिम्रहावलोकनार्थ कार्य इति शेषः ॥९॥ अत्रोपपत्तिः । आचार्यस्य शृङ्गोन्नत्यध्यायस्य प्रथमश्लोकेन स्फुटचरोपपत्तिः स्फुटा । तेनैवाध्यायेनान्यत् सर्वं च स्फुटमिति ॥ ९ ॥ यदा समकलौ रात्रावूनी तत्काललग्नतः । अधिको चाऽस्तलग्नात् स्तस्तदा दृश्ययुतिर्भवेत् ॥ १० ॥ स्पष्टार्थमुपपत्तिश्च स्फुटा ॥ १० ॥ असमदिशोः शरयोर्युतिभाजी निजनिजबाणदिशि धुचरी स्तः । समककुभोः खलु यस्य शरोऽल्पो ऽपरदिशि सोऽन्यनभश्चरतः स्यात् ॥ ११ ॥ स्वष्टार्थम् । अत्रोपपत्तिः । भास्करग्रहयुत्यधिकारतः स्फुटा ॥ ११ ॥ समफलयोर्ग्रहयोरुदयो यः स्फुटमनयोरुदयात् समयेन । स भवति येन सति ग्रहभेदे स तिथिरतः कुरु लम्बनपूर्वम् ॥ १२ ॥ समकलयोरेकस्थानस्थितयोर्ग्रहयोर्य उदय उदयकालो भवेत् तस्मात् उदयादुदयकालाधन समयेनानयोर्ग्रहयोः स्फुटं स युतिकालो ग्रहभेदे सति भवेत् स एव तिथिर्दन्तिः कल्प्यस्ततः सूर्यग्रहणवल्लम्बनपूर्व लम्बनादिकं कुर्वित्यर्थः। उपपत्तिरत्रातिसरला ॥ १२ ॥ Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy