________________
करणप्रकाशे। रार्थ ' ये चात्र पातभगणाः पठिता ज्ञभृग्वोस्ते शीघ्रकेन्द्रभगणैरधिका यतः स्यु-' रित्यादि भास्करवचनं सभाष्यं विलोक्यमिति ॥ ६ ॥
स्वं स्वं पातं सहशकलिकात् सौम्यभृग्वोचलोचात् त्यत्का दोा निजशरहता शीघ्रकर्णोद्धृता च । क्षेपः स्पष्टो भवति दिशि पातोनितव्योमगस्य नत्या सूर्यग्रहणविधिना संस्कृतः शीतरश्मेः ॥ ७॥ सदशकलिकात् स्पष्टग्रहात् । शीतरश्मेश्चन्द्रस्य वाणो नत्या संस्कृतः स्फुटः स्यात् ।
अत्रोपपत्तिः । मन्दस्फुटात् खेचरतः स्वपातयुक्ताद्भुजज्या पठितेषुनिनीत्यादिना चक्रशुद्धपाततः स्फुटा आचार्येण शरभागाः साधिताः। चन्द्रस्य च नतिमहत्त्वात् स्वीकताऽन्येषां स्वाल्पन्तरात् त्यक्ता तेन भौमादीनां गणितागतःक्षेप एव स्फुटो नतिसंस्कृतो ज्ञेयः ॥ ७ ॥ शरयोः समभिन्नगोलयोर्विवरैक्यं भवति ग्रहान्तरम् । अस्मिँस्तनुखण्डयोगतो भेदोऽल्पे खरसो ६० द्धृते कराः ॥८॥
समभिन्नगोलयोः शरयोः क्रमेण विवरमैक्यं च ग्रहान्तरं भवेत् । अस्मिन्नन्तरे तनुखण्डयोगतो मानक्याईतोऽल्पे भेदो भवति । अधःस्थेनोर्ध्वस्थश्छाद्यत इत्यर्थः । ग्रहयोदक्षिणोत्तरान्तरं शरयोः संस्कारसमं कलात्मकं षष्टिहृतं हस्ता भवन्ति ।।
अनोपपत्तिः । अत्रैकममुलं साईद्विकलं ५ गृहीतं तच्चतुर्विंशतिगुणं हस्ताङ्गुललिताः=६० । अतः कलात्मकमन्तरं पष्टिहृतं हस्ता भवन्ति । शेषोपपत्तिरतिसुगमा ॥ ८ ॥ पलप्रभानेन कलेषुणा धगै७२
हतेन संस्कृत्य चरं ततो दिनम् । प्रहैष्ययुग्लग्नगताऽन्तरोदयैर्युतौ भवेदृश्ययुतौ विधिः स हि ॥ ६ ॥
Aho ! Shrutgyanam