________________
४६
करणप्रकाशे। श्रीमत्कृपालोस्तनयेन येन नयेन सत्येन सुधाकरेण । सहासनाऽकारि बहुत्र तेन विदोदितः खेटगमे तु हेतुः ॥ इति करणप्रकाशस्य सद्वासनायामुदयास्ताधिकारः समाप्तः ॥ ७ ॥
__ अथ शृङ्गोन्नत्यधिकारः । अक्षप्रभा क्षेपहता यमस्वरै-७२
भक्ता फलेनोनयुतं स्फुटं भवेत् । इन्दोश्चरार्धे रविवत् प्रसाधितं
भिन्नैकविक्षेपशशाङ्कगोलयोः ॥ १॥ स्पष्टार्थम् ।
अत्रोपपत्तिः । अत्र शरकलावशेन स्थूलत्वात् कुज्याकलासमा एव चरासवः साधितास्ते षड्भक्ताः शरजनितं पलात्मकं चरं स्यात् । तत्संस्कारेण मध्यक्रान्तिभवचरार्धं स्पष्टं चरं स्यादिति ।
श.क-श । ज्याश-श.x३६ । कुज्या विश.x३२ । एतच्चापभागाः= वि X शX ३१४ १५ _ विश '१२४६०४१५४३१ १२x६० ।
X । एते षष्टिगुणाः कुज्याकलाः विश । एते षड्भक्ताः शरजं पलात्मकं चरम्=विXश । अत उपपन्नमानयनम् । धनोपपत्तिरतिसुगमा ॥ १ ॥ प्राग्वत् प्रागुदयेन्दुलग्नयोः
पश्चात् षड्भयुतास्तचन्द्रलग्नयोः । यः कालोऽन्तरजः स उन्नतो भवेत्
साध्याऽतः स्वचरार्धतोऽर्कवत् प्रभा ॥२॥ प्राकक्षितिज उदयेन्दुः प्राग्डग्ग्रह आयनाक्षजदृकर्मसंस्कृत इन्दुः । लग्नं चानयोर्मध्ये प्राग्वत् ' उनस्य भोग्योऽधिकभुक्तियुक्तो मध्योदयाढ्य ' इत्यादिना कालश्चन्द्रस्योन्नतकालो भवेत् । पश्चिमक्षितिजे षड्भयुतास्तचन्द्रलग्नयोर्मध्ये प्राग्वदुन्नतकालः साध्यः । तत उन्नतकालात् स्पष्टचरार्धतश्च शङ्क विधाय अर्कवत् प्रभा छाया चन्द्रस्य साध्येत्यर्थः ।
Aho ! Shrutgyanam