SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ उदयास्ताधिकारः । अस्तेऽल्पका गम्यदिनान्यवेहि ४५ विलोमतस्तान्युदये ग्रहाणाम् ॥ ६ ॥ ध्रुवांशाः कालांशाः पठिता इष्टांशेभ्यो ऽभ्यधिकास्तदा तदन्तर्वर्त्तिदिनानि गतानि अल्पाश्चगम्यानि अस्ते अवेहि जानीहि । यदि कालांशाः पठिता इष्टांशेभ्यो ऽभ्यधिकास्तदा एष्यदिनानि अल्पास्तदा गतदिनानीत्यर्थः । उपपत्तिरर्थत एव स्फुटा ॥ ६ ॥ उक्तक्षितकाललवान्तरलिप्ता भुक्त्योर्विवरेण हृता ग्रहभान्वोः । वक्रोपगते द्युचरे गतियुत्या गम्यानि गतानि च सन्ति दिनानि ॥७॥ स्पष्टार्थमुपपत्तिश्चानुपाततो गतगम्यदिनानयनस्य स्फुटा ॥ ७ ॥ यदा खरांशुर्भवनद्वयेन स्वाक्षांशहीनेन समस्तदानीम् । प्रयात्यगस्त्योऽस्तमयं भषङ्कात् तेन च्युतेनोदयमेति तुल्यः ॥ ८ ॥ इति करणप्रकाशे उदयास्ताधिकारः ॥ ७ ॥ स्पष्टार्थम् । ( मन्निर्मितगणकतरङ्गिण्यां ३१-३३ पृष्ठानि विलो - क्यानि ) अत्रोपपत्तिः ः । अगस्त्यस्य याम्याः शरांशाः = ८० लल्लमतेन तज्ज्या =११८ | यदि लम्बज्ययाऽक्षज्या तदा शरज्यया किं लब्धा स्थूला - क्षदृक्कर्म ज्या = । अत्र स्वल्पान्तरात् प्रथमज्याखण्डानुपातेनाक्षज्या= ३१ अ । लम्बज्या च स्थूला = १२० । ततोऽक्षदृक्कर्मज्या ज्याअ x ११८ ज्याल १५ _३१ × अ× ११८ १२०×१५ १२० ० _अX ११८___ । एतच्चापांशाः स्थूलाः=- अ, स्वल्पान्तरात् । स्वल्पान्तरात् कालक्षेत्रयोः समविभागकल्पनया द्वादशकालांशसमान् क्षेत्रांशान् प्रकल्प्यास्तभानुः = ८०० – १२ - अ=६ ८° - अ| अत्राक्षदृकर्मणः स्थूलत्वात् ६८° स्थाने ६०° एते गृहीतास्तारतम्यादाचार्येणात उपपद्यते सर्वम् । उदयभानुरस्तभानुहीनभार्धसमः स्वल्पान्तरादिति ॥८॥ Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy