________________
उदयास्ताधिकारः ।
४३
तरणेः सूर्याल्लघुगतिरल्पगतिर्ग्रहो यथा भौमगुरुमन्दा वक्रिणौ बुधशुक्रौ च यदा तरणेरूनो ऽल्पस्तदा प्राच्यां दिश्युदेति रात्रिशेषे । अधिकगतिर्ग्रहश्च यथा चन्द्रो व्वणि ज्ञशुक्रौ च यदा खेरधिकस्तदा प्रतीच्यामुदेति । एवं सोऽधिकगतिर्ग्रहो यदा रवेरूनस्तदा शक्रस्येन्द्रस्य दिशि अर्थात् प्राचि ऊनगतिश्च रवेर्यदाधिकस्तदाऽपरस्यां पश्चिमायां दिश्यस्तं यातीत्यर्थः ।
अत्रोपपत्तिः । ' रवेरूनभुक्तिर्ग्रहः प्रागुदेती 'त्यादिभास्करप्रकारतः स्फुटैव सिद्धान्तविदामिति ॥ १ ॥
कालांश कैर्दिनकरे- १२ नवभिः ९ कुचन्द्र- ११
विश्वे - १३ दिने १५ स्तुरगशीतकरैः १७ क्रमेण । शीतांशुशुक्रगुरुसोमसुतार्किभौमा
हीनाधिका दिनपतेः स्युरदृश्यदृश्याः ॥ २ ॥
स्पष्टार्थम् । कालांशाश्च प्राचीनैरेतावन्त एवोपलब्धा इत्यत्र तेषां वागेव कारणं कालांशानां स्थिरत्वे नान्यत् कारणं वक्तुं शक्यत इति । चन्द्रादीनां कालांशाश्च । चं १२ । मं १७ । वु. १३ । गु. ११ । शु. ९ । श. १९ । भास्करादिमतेन बुधशुक्रकालांशा भिन्नाः सन्ति ॥२॥ ग्रहस्य दोर्ज्यारहिता त्रिभज्यका
क्षेपाहता शैलनवाश्वि- २९७ भिर्भजेत् । लिप्तादि बाणायनयोः समाशयोः
कुर्यादृणं भिन्नदिशोधनं ग्रहे ॥ ३ ॥
त्रिभज्यका ग्रहदो यरहिता कार्या । एवं भुजको व्युत्क्रमज्या जाता सा क्षेपेण ग्रहशरेणाहता तां शैलनवाश्वि- २९७ भिजेदुणक इत्यध्याहा - र्यम् । लब्धं लिप्ताद्यायनदृक्कर्मकलाः स्युरिति । शेषं स्पष्टार्थम् ।
अत्रोपपत्तिः । स्थूलतया युज्या त्रिज्या गृहीता । नाडीमण्डलासव एव क्रान्तिवृत्ते कलाः कल्पिता उत्क्रमज्ययाऽऽयनवलनं च साधितम् । तत 'आयनं वलनमस्फुटेपुणा सगुणं द्युगुणभाजित ' मित्यादिभा
Aho! Shrutgyanam