________________
કર
करणप्रकाशे। ऽन्यथा स्थित्यर्धे लम्बनान्तरमृणं भवति । यदि मध्यस्पर्शकालिकयो मध्यमोक्षकालिकयोर्लम्बने धनणे भवतस्तदा तयोरन्तरे तद्योगो भवतीति । एवं मर्दखण्डयोः स्फुटयोर्मध्येऽपि विधिरित्यादि सर्व स्फुटमिति सर्वमुपपद्यते ॥७॥
स्याद्वाहुराभिमतः स्फुटेषुजः
स्थित्यर्धनिघ्नोऽपहृतः स्फुटन सः । स्फुटस्ततो ग्रासविधिर्यथोक्तवत्
ततोऽप्पनेहा विपरीतकर्मणा ॥८॥ तत इष्टग्रासाद्विपरीतकर्मणाऽनेहा इष्टकालः साध्य इत्यर्थः ।
अत्रोपपत्तिः । 'शेष शशाङ्कग्रहणोक्तमत्र स्फुटेषुजेन स्थितिखण्डकेन' इत्यादिना भास्करविधिना स्फुटा । तत्रैव भास्करविधी मदीयो विशेषश्च चिन्त्यः । (मन्मुद्रायित-लल्लसिद्धान्तशिष्यधीवृद्धिदतन्त्रस्य ३५ पृष्टे मदीया टिप्पणी विलोक्या ) ॥ ८ ॥
मातण्डबिम्बस्य दिवाकरां-१२शः
संलक्ष्यते नो खलु खण्डितोऽपि । सुतीव्रभावान्महसः सुधांशोः
सुनिर्मलत्वादपि षोडशां-१६शः ॥९॥ इति करणप्रकाशे सूर्यग्रहणाधिकारः ॥ ६॥
स्पष्टार्थमुपपत्तिश्च — इन्दोर्भागः षोडशः खण्डितोपि तेजःपुञ्जच्छनभावान्न लक्ष्यः-' इत्यादिभास्करोक्तेनोपलब्धिरेवेति ॥ ९ ॥
श्रीमत्कृपालोस्तनयेन येन नयेन सत्येन सुधाकरेण ।
सद्वासनाऽकारि बहुत्र तेन विदोदितः सूर्ययुतौ तु हेतुः ॥ इति करणप्रकाशस्य सहासनायां सूर्यग्रहणाधिकारः समाप्तः ॥६॥
__ अथोदयास्ताधिकारः ऊनो ग्रहो लघुगतिस्तरणेरुदेति
प्राच्यामतोऽधिकगतिस्त्वधिकः प्रतीच्याम् । शक्रस्य दिश्यधिकभुक्तिखगः स ऊनो ।
यात्यस्तमूनगतिरप्यधिकोऽपरस्याम् ॥१॥
Aho ! Shrutgyanam