________________
सूर्यग्रहणाधिकारः ।
३९
क्षेपस्य तथा तुरङ्गभुजङ्गशरधनक्षेपस्य साधनं ग्रन्थान्ते भविष्यति । इह तु दिनगणस्य गुणहारावेोपपन्नाविति ॥ २० ॥
फलमगै -७ र्विभजेत् कमलासनाद्भवति पर्वपतिस्त्ववशेषकः । डुहिण - चन्द्र- पुरन्दर - वित्तपा वरुण पावक - दण्डधराधिपाः ॥२१॥ स्पष्टार्थम् । उपपत्तिश्च पूर्व कोकेनातिसुगमा ॥ २१ ॥
·
आद्यन्त्ये चाऽऽधूम्रवर्णानुरूपं खण्डग्रासे भृङ्गवृन्दानुकारि । ग्रासो रक्तश्यामवर्णोऽधिकोऽधीत् सर्वग्रासं पिङ्गलः शीतरश्मिः ॥२२॥ इति करणप्रकाशे चन्द्रग्रहणाधिकारः ||५|| भृङ्गवृन्दानुकारि भ्रमरपुञ्जसदृशमर्थात् कृष्णमित्यर्थः । शेषं स्पष्टार्थम् ||२२||
श्रीमत्कृपालोस्तनयेन येन नयेन सत्येन सुधाकरण | सहासनाकारि बहुत्र तेन विदोदितश्चन्द्रयुतौ तु हेतुः ॥ इति करणप्रकाशस्य सद्वासनायां चन्द्रग्रहणाधिकारः समाप्तः ॥५॥ अथ सूर्यग्रहणाधिकारः ।
तिथेर्नताद्वाण - ५ हृताद्गृहाद्यं तेनोनितः प्राचि युतोऽपरत्र । सूर्यस्ततः क्रान्तिलवा युतोनाः स्वाक्षेण तुल्यान्यदिशोलवाः स्यु : ॥ १॥
तिथेर्नताद्दर्शान्तकालिकनतकालाद्यव्यात्मकात् पञ्चभक्ताद्यद्गृहाद्यं फलं तेन प्राचि प्राक्कपाले सूर्यो हीनोऽपरत्र पश्चिमकपाले युक्तस्ततो ये क्रान्तिलवास्ते तुल्यान्यदिशोः स्वाक्षांशेन युतोना लबा वित्रिभनतलवाः स्वल्पान्तरतः स्युरित्यर्थः ।
अत्रोपपत्तिः । नतघटिकाः षड्गुणा भागास्ते त्रिंशद्धृता राशयः स्युरेवं नतघटिकाः पञ्चभक्ता नाडीवृत्ते रविगतध्रुवप्रोतयाम्योत्तरवृत्तान्तता राशय एव स्वल्पान्तरादर्कदशमलग्नान्तरांशा वा वित्रिभाकीन्तरां - शा जातास्ततः संस्कारेण वित्रिभमानं स्फुटम् । वित्रिभक्रान्तिपलभागानां संस्कारेण वित्रिभनतांशाः साधिता इति सर्वमुपपन्नम् ॥ १ ॥
Aho! Shrutgyanam