________________
चन्द्रग्रहणाधिकारः ।
आद्ये प्राचि यथादिशं स्ववलनेऽर्केन्द्रोर्विमोक्षादिगे पश्चात् स्पार्शिकमोक्षजेऽन्यदिशिजे ज्यावत् क्रमात् प्रापयेत् ॥ १५ ॥ अत्र स्फुटं वलनं त्रिंशदङ्गलव्यासार्वे परिणतं प्रागेव कृतमतः प्रथमं वृत्तं बलनदानार्थं त्रिंशदङ्गुलव्यासदलेन विलिखितं ततो ' ग्राह्यार्धसूत्रेण विधाय वृत्त' मित्यादिभास्करविधिनैव सर्वं कृतमिति स्फुटम् ||१५|| शिलीमुखस्यात्र ककुप्प्रदेशाद्याम्याश्च सौम्याश्च समान्यकाष्ठे | मध्यं नयेत् पश्चिमपूर्वकाष्ठे तिग्मद्युतेश्चन्द्रमसोऽन्यथा स्यात् ॥१६॥
३७
शिलीमुखस्य बाणस्य ककुप्प्रदेशाद्दिप्रदेशाद्याम्याद्वा सौम्यात् मध्यं मध्यवलनं समान्यकाष्ठे समभिन्नादिके क्रमेण पश्चिमपूर्वकाष्ठे पश्चिमपूर्वाभिमुखे नयेत् प्रापयेत् । तिग्मद्युतेः सूर्यस्यैवमेव ज्ञेयम् । चन्द्रस्य चातोऽन्यथा विपरीतं स्यात् । अर्थात् शरं विपरीतदिक्कं प्रकल्प्य ततः पूर्ववन्मध्यवलनं देयमित्यर्थः ।
अत्रोपपत्तिर्भास्करीयपरिलेखलेखनतः 'शरा यथाशा ग्रहणे खरांशोचन्द्रग्रहे व्यस्तदिशस्तु वेद्याः' इत्यादि वचनत स्फुटा ॥ १६ ॥ वृत्ते द्वितीये वलनायकेन्द्रस्पृक्सूत्रचिह्नात् प्रथमान्त्यबाणी । केन्द्रान्न्यसेन्मध्यशरं च मध्येऽर्केन्द्राः स्वकीयान्यदिशि क्रमेण ॥ १७॥ सष्टार्थम् ||१७||
ग्राह्यवृत्तेऽथ बाणाऽग्रतः खण्डिते ग्राहकाप्रमाणेन सूत्रेण वा । स्पर्शमोक्षौ भवेतां दिशी लक्ष्यते मध्यमग्रास संस्थानमाकारतः ॥१८॥ स्पष्टार्थम् ॥१८॥
प्राग्ग्रा से बाहुरिन्दोः स्ववलनककुभि प्राचि पश्चात् स मो केन्द्रात् पूष्णोऽन्यथा स्यात् स्वदिशि दिनपतेः कोटिरिन्दोर्भुजाग्रात् । व्यस्ता मध्यात् प्रसार्य श्रुतिमनृजुगतां कोटिकर्णाप्रयोगादिष्टग्रासादिसिद्ध्यै सुमतिरनुलिखेग्राहकार्धेन वृत्तम् ॥१९॥
स्पष्टार्थम् । उपपत्तिच भास्करपरिलेखात् स्फुटा ॥ १९॥
Aho! Shrutgyanam