________________
करणप्रकाशे ।
चन्द्रग्रहणे ग्राह्यश्चन्द्रः सूर्यग्रहणे च ग्राह्यः सूर्यस्तस्माद्राशित्रयसहिताद्दोर्ज्या विलोम विधिना कार्या । अर्थात् सत्रिभग्रहस्योत्क्रमज्या साध्या ततस्तस्याः प्राग्वत् क्रान्तिः कार्या । अस्यापक्रमस्य पूर्वागताक्षवलनचा - पस्य च समदिशोर्योगोऽन्यथा वियोगः कार्यः । शेषं स्पष्टार्थम् । अत्रोपपत्तिः । सत्रिभग्रहस्य दोर्ज्या खेटकोटिज्या भवति सा जिनज्यागुणा ज्याहृताssयनं वलनं वास्तवं भवति । आचार्येणात्रापि लल्लस्य ग्राह्यात् सराशित्रितयागुजज्या व्यस्ता
1
"
३६
इत्यानयनानुसारेणोत्क्रमज्या जिनज्यागुणिता स्थूलतया च त्रिज्यामितया द्युज्यया हृता । एवं तत्क्रान्तिज्या जाता तच्चापं क्रान्तिरायनवलनांशाः सत्रिभग्रहदिक्का जा ताः । प्रथमं चापसंज्ञकमक्षवलनचापं साधितम् । तयोः संस्कारेण स्फुटवलनभागानानीय तज्ज्या त्रिंशदङ्गुलव्यासदले परिणामिता जातं स्फुट। अत उपपन्नम् ॥ १३ ॥
३० X तज्ज्या तज्ज्या १२० ४
वलनम्
स्वाध्यं - ४शयुक्तं दिनमुन्नताढ्यं दिनार्धभक्तं विहृतिस्तयाऽऽताः । मानार्धमान क्यदलेषु कर्णदोः कोटयः सन्ति तदङ्गुलानि ॥ १४ ॥
दिनं दिनमानं स्वीयचतुर्थांशेन सहितमुन्नतकालयुक्तं च यद्भवेत् तद्दिनार्धभक्तं विहृतिरर्थात् छेदः स्यात् । शेषं स्पष्टम् ।
अत्रोपपत्तिः । अत्राङ्गुललिप्ताः साध्यन्ते तत्रोदये सार्धकलाद्वयेनै( २३=३) कमङ्गुलं मध्याह्ने सार्धकलात्रयेण चैकमङ्गुलं कल्पितम् । अवान्तरेऽनुपातः । दिनार्धसमोन्नतेनाङ्गुललिप्तान्तरमेका कला तदेष्टान्नतेन किम् । लब्धं सार्थद्वययुक्तं जाता अङ्गुललिप्ता विहतिः
५दि + उन्न
उन्न ४
"
= कि
दि ,
अनया विहृत्यैकमङ्गुलं तदा मानार्थादिना किय
न्त्यङ्गुलानि । इत्यनुपातेन तदङ्गुलानि जातानीति सर्वमुपपद्यते ॥ १४ ॥ आदौ व्योमगुणा - ३० ङ्गुलैः परिमितं मानैक्यखण्डाङ्गुलैः पश्चाद्भाह्यदलाङ्गुलैश्च वलयं संसाधिताशं लिखेत् ।
Aho! Shrutgyanam