SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ चन्द्रग्रहणाधिकारः। इन्दोश्चन्द्रस्य ग्रहणे दिनार्धाद्वात्रिदलपर्यन्तं पूर्व ततो रात्रिदलादिनदलं यावदपूर्व पश्चिमं कपालं कथयन्ति सिद्धान्तविद इत्यध्याहार्यम् । भानोर्ग्रहणे ते द्वे कपाले अन्यथा विपरीते भवतः । अर्थात् दिनदलाद्रात्रिदलपर्यन्तं पश्चिमं रात्रिदलाद्दिनदलं यावत् पूर्व कपालमिति वेदितव्यम् । __ अत्रोपपत्तिः । याम्योत्तरवलयेन गोलस्य प्राक्पश्चिमक्षितिजगती यो भागौ तावेव पूर्वपश्चिमकपालत्वेन व्यवहितौ । तत्रस्था ग्रहाश्च तत्कपालीया एवोच्यन्ते । चन्द्रग्रहे दिनार्धाद्रात्रिदलं यावत् तावच्चन्द्रः पूर्वकपाले ततः परं पश्चिमकपाले । एवं रविश्च रात्रिदलादिनदलं यावत् तावत् पूर्वकपाले ततः परं पश्चिमकपाल इति सर्वं गोलविदामतिरोहितमेवेति ॥ ११ ॥ स्पर्शादिकालोत्थनतज्यकाभिरक्षप्रभा सङ्गुणिता विभक्ता। निजाक्षकर्णेन फलस्य चापं याम्योत्तरं पश्चिमपूर्वयोः स्यात् ॥१२॥ नतज्यकाभिर्नतकालोत्क्रमज्याभिः । शेषं स्पष्टार्थम् । अत्रोपपत्तिः । अत्र नतकालोत्क्रमज्यासमा सममण्डलीयनतभागोत्क्रमजीवा स्थूलाऽऽचार्येण स्वीकृता ततो ज्याऽक्षज्यागुणा धुज्यया हृता जातमक्षवलनं स्थूलं धुज्यास्थाने त्रिज्यां परिकल्प्य नउज्याभ __नउxबिपलभा _नउ- पलभा, = त्रिx पलकर्ण= पलकर्ण । उक्त = न पला। उत्क्रमज्यया वलनं न समीचीनं भवतीत्येतदर्थं भास्करीया वलनवासनाऽवलोकनीया । आचार्येण च ' स्पर्शादिकालजनतोत्क्रमशिञ्जिनीभिः क्षुणणाऽक्षमा पलभव श्रवणेन भक्ता', इति लल्लानयनानुसारेणोत्क्रमज्ययेह वलनमानीतामति । इदं वलनं पूर्वकपाले उत्तरं पश्चिमे दक्षिणमिति सिद्धान्तविदां विदितमेवेति सर्व स्फुटम् ॥१२॥ ग्राह्यात सत्रि-३गृहाद्विलोमविधिना दोा विधेया ततः प्राग्वत् क्रान्तिरसौ ग्रहत्रययुतस्येन्दोर्दिशि स्यादिह । योगोऽपक्रमचापयोः समदिशोः कार्यो वियोगोऽन्यथा तज्ज्या वेद-४हृताऽङ्गुलादिवलनान्यवं भवन्ति स्फुटम् ॥ १३ ॥ Aho ! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy